________________
मार्च २००८
शुकस्थानस्थचेतास्तुहिनकरकलाकान्तया तिग्मलासः पुंसः सम्बन्धबन्धं विरचयति ततस्तद्विमर्दोत्थबीजम् । नासारन्ध्रादिमार्गाज्जनयति मनसा भ्रष्टमग्रेसरेण भ्रष्टीकर्मेदमुक्तं रतसमरसुखास्वादसंवादहेतुः
॥१२४॥३१ यन्त्रं पिण्डप्रमाणं विरचयति ततो मध्यदण्डे विलय स्वं देहं नाभिदेशात् क्षितिनिमितमुखः कुञ्चयन् पाणिपादम् । जिह्वाग्रं लम्बिकायां विदधदधिवसंश्चेतसा बुद्धितत्त्वं गर्भावस्थाभिधानं जनयति तदिदं कर्म शून्यान्तरात्मा ॥१२५॥३२॥८ तन्वती देहिनां देहं कुमुदामोदमेदुरम् । धत्ते कर्मद्वयाभ्यासान्मुदं कुमुदिनी कला
॥१२६॥३३ लिङ्गद्वारान्मानसे स्वे सुषुम्णामार्गेणोच्चैश्चुम्बति श्वेतभानुः । ऊर्ध्वं याति स्त्रीप्रसङ्गेऽपि रेतः स्यादुद्यातीकर्म शर्मप्रदं तत् ॥१२७॥३४ आकुञ्चन् गुदमुच्चकैविरचयन् जङ्घाद्वयं कन्धराबन्धस्योपरिचारि किं च विदधन्मूर्धानमूर्ध्वस्थितम् । यज्जालन्धरपीठलोठितमनाः सोल्लासमासूत्रयेत् तज्जालन्धरकर्म कर्मकुशलाः सम्यक् समाचक्षते ॥१२८||३५॥९ विकाशश्रियमश्रान्तं लम्भिताः कर्मभिस्त्रिभिः । धत्ते देहप्रभोल्लास-हासं प्रहासिनी कला
॥१२९॥३६ तन्वन् नवद्वारनिरोधपूर्वं विश्रामचक्र पवनस्य चेतः । अन्दोलयेदिन्दुपतङ्गबिम्बे विदुस्तदन्दोलनकर्म कार्माः चेतः कृत्वा विस्मृतेश्चक्रेचारि स्वैरं नाडीस्ताडयन् मुष्कभाजः । उद्यल्लिङ्गं स्वास्थ्यमास्थापयेद् यत् षष्ठीकर्म रव्यापितं तन्मुनीन्द्रैः ॥१३१॥३८ गतवति चेतसि पश्चिमलिङ्गं विवृतमुख: करपीडितनाभिः ।
जनयति नाभिसरोजविकाशं कमलविकाशनकर्म तदाहुः ॥१३२॥३९ ॥१० . १. विमर्दोत्थवीर्यम् । २. ललनाचक्रोपरि २ । ३. आज्ञाउपरि ४ । ४. सोमचक्रोपरि ६ ।
५. आज्ञा उपरि २० ।
॥१३०॥ ३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org