SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४३ 'चक्रे ध्वनेश्चरति चेतसि योगपट्टावष्टम्भितश्चिबुकचुम्बितजानुमध्या । नैर्मल्यतः स्वनयनादि निरञ्जयेद् यत्, कर्म स्मृतं गतमदैरिदमञ्जनीति ॥११५॥२२ लिङ्गद्वारान्तरालादुपनयति मनो मूलकन्देऽथ तस्मानक्षत्रोद्दामदीप्तिर्गमयति यशया वामनेत्राम्बुजान्तम् । चक्षुर्मार्गाच्च सव्याद्विरचयतितरां मूलकन्दे पुनस्तत् कर्माऽलिन्दीति योगावसथपृथुतरालिन्दतुल्यं तदाहुः ॥११६॥२३ कर्मेदमेव मनसि प्रस्थिते गजजिह्वया । कालिन्दी-गङ्गयोः सङ्गात् कालिन्दीकर्म कीर्त्यते ॥११७॥२४ चिराभ्यासवशीभूतै-रापूर्णा कर्मभिस्त्रिभिः । पुंसां दिशति सन्तोष-पोषं सन्तोषिणी कला ॥११८॥२५ आकुञ्चन् पायु-शिश्ने मनसि च नितरामुन्मनीचक्रलीने कापालद्वाररन्ध्रस्थगनपरिचयप्रजिह्वाकवाटः । अन्तर्देहं समीरे विलयमुपगते शश्वदभ्यासयोगात् काष्ठीकर्मेदमुच्चै रचयति वपुषः काष्ठकाष्ठाविधायि ॥११९॥२६ "बिन्दुस्थाननिकेतनातिथिमना ग्रीवान्तकान्तस्थिति या॑तन्वन् चिबुकं स्वकण्ठमभितो नाड्याविडा-पिङ्गले । अङ्गष्टद्वयपीडनानिविडयन् मूर्छान्धकारान्तरे यत् पीयूषरसं पिबेत् तदमरीकर्मेदमावेदितम् ॥१२०॥२७ रून्धन् रन्ध्रव्रजमनुसरन्मानसेनाम्बुमुद्रां कृत्वा वज्रासननिबिडतां चन्द्रबिम्बात् पराचीम् । निश्च्योतन्ती यदमृतकलां चारयेत् स्वे समन्तादन्तोच्छित्त्यै तदिदमवदन् खेचरीकर्म सन्तः ॥१२१।।२८॥७ आकल्पान्तमियं कर्म-त्रयसंवृत्तवर्त्तना । शरीरिणां शरीराणि वर्तयेद् वर्तनी कला ॥१२२।।२९ पुरुषधामवशंवदमानसो घटपटाद्यपि हि स्वतया स्मरन् । स्वकुल एव भवत्ययमीश्वर-स्तदिह कर्म कुलीश्वरमूचिरे ॥१२३॥३० १. आधारोपरि । २. आधारादधः । ३. सोमचक्रोपरि । ४. आज्ञाउपरि ७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy