________________
१८
मार्च २००८
वक्त्र-घ्राण-प्राणमाकृष्य तेन स्थानं भित्त्वा ब्रह्म-शौरीश्वराणाम् । स्थूलाः सूक्ष्मा नाडिकाः पूरयेद् यद् विज्ञातव्यं कर्म तत् पूरकारव्यम् ॥१०५॥१२ अन्तर्जलं स्थिततनुर्नयनद्वयेन संयोज्य सम्पुटितमंहिसरोजयुग्मम् । कुर्वीत 'पूर्णगिरिपीठगतं मनो यत् तत् कर्म पूर्णगिरिसंज्ञमुदाहरन्ति ॥१०६॥१३॥१३ कर्मद्वयकृतोल्लास-चिराभ्यासवशंवदा । कामं कामोदयच्छेदौ कुरुते कामिनी कला
॥१०७।१४ लिङ्गद्वाराल्लम्बिकां चुम्बमाने चित्ते गुल्फस्योपरि न्यस्य शिश्नम् । यत्सङ्कोचं मन्दमन्दं नयेत् तत् सङ्कोचीति स्यादिदं कर्म तस्मात् ॥१०८॥१५ आकण्ठं नीरपूरान्तररचिततनुः पद्मबन्धासनस्थश्छायायामहि नक्तं शशधरकिरणक्षालितं क्षोणिपीठे ।। स्वान्ते विश्रान्तिमञ्चत्यचलवनभुवि क्षीरखण्डादि भुङ्क्ते कर्मैतद् बिन्दुमालिन्यभिहतमुदयद् बीजबिन्दुप्रपातम् ॥१०९।।१६ आधिव्याधिपरित्रस्त-प्राणित्राणाय जाग्रती । आश्वासं जनयेत् कर्म-त्रयादाश्वासिनी कला
॥११०॥१७ पवनं मानसे तच्च सुषुम्णोधारमण्डले । सम्बन्ध्य (ध्य?)बन्धयेत् श्वासं श्वासबन्धनकर्म तत् ॥१११॥॥१८ नवविवरविरोधस्वास्थ्यमास्थाय काये मनसि रजनिजानेबिम्बमालम्बमाने । सितमपि किल रेतः श्वेतमाबन्धयेद् यत् तदुदितमिह कर्म श्वेतबन्धाभिधानम्
॥११२||१९ आकाशान्तः प्रविशति गुरुद्वारतो मानसाख्यं चक्रं भित्त्वा मनसि दशमद्वारभेदं च कृत्वा । मन्दं मन्दं रचयतितरां कुञ्चनं पायुवायोराकुञ्चीति स्फुरति तदिदं कर्म शर्मैकहेतुः
॥११३।।२० चिराभ्यासवशीभूत-कर्मत्रितयवर्मिता । चित्तमानन्दसन्दोहे मोहयेन्मोहिनी कला
॥११४॥२१ १. आज्ञाउपरि ब्रह्मस्थानम् । अनाहतोपरि विष्णुस्थानम् । २. ललनाचक्रोपरि सप्तमम् । ३. बद्धपद्मासनस्थः । ४. सोमचकोपरि प्रथमम् । ५. आज्ञाचक्रोपरि नवमम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org