SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २२ मार्च २००८ स्वं (स्व)च्छन्दसुन्दरवपुर्मनसा सितांशु-बिम्बं स्पृशन् पिबति नासिकया समीरम् । 'सूर्यं स्पृशन्नथ विरेचयते तदेत-च्चेतो विघूर्णयति घोलनसंज्ञकर्म ॥१४३||५० आकाशाद् 'ब्रह्मरन्ध्र प्रविशति भजते वाममार्गेण पादौ । सव्यान्मार्गात् सुषुम्णापथमथ वितथीभावबन्धं समेत्य । ब्रह्मग्रन्थिप्रबन्धे विलयमविकलं याति चेतस्तदेतत् कर्म प्रावीण्यपुण्यैर्मुनिभिरभिहितं ब्रह्मभेदाभिधानम् ॥१४४॥५१ सावष्टम्भाङ्गयष्टिं स्फुटनिमितमना नादचक्रे निरुध्य घ्राणं मध्याङ्गुलीभ्यां श्रुतिविवरपथस्थापिताङ्गुष्टयुग्मः । निःशेषद्वाररोधे ध्रुवमुपरि शिरोऽभ्यन्तरेऽनाहतं यत्(द्) घण्टारावं विधत्ते तदिदमभिह(हि)तं कर्म घण्टारवाख्यम् ॥१४५।। ५२ ॥१४ वपुर्वचनचेतस्सु कर्मत्रितयदीपिता । तुल्यमुल्लासयत्येव सोमतां सोमिनी कला ॥१४६॥५३ कुर्वन् कदम्बंगोलान्तः स्वान्तमन्तर्मुखेन्द्रियः । बन्धयेत्तियडास्तिस्र-स्तिडया( यडा )बन्धकर्म तत् स्थास्तूकृत्य मनस्तृतीयतियडाचक्रान्तसञ्चारितं पर्यङ्कासनबन्धबन्धुरवपुराणि रुद्ध्वाऽभितः । उत्तानो दृढरज्जुबन्धनविधि नाभिप्रदेशे दिशेद् धूनोत्युद्धततापसम्पदमिदं कर्माऽवधून्याह्वयम् ॥१४८॥ ५५ चेतः कृत्वा यदमृतकाचक्रविक्रान्तमन्तः स्वेच्छासीनः सरलितपदः किञ्चिदामीलितास्यः । स्पृष्ट्वा दन्तानिजरसनया सूत्कृतैरत्ति वातं कर्म प्रोक्तं भुजगजनितं तद् भुजङ्गीति नाम्ना ॥१४९॥ ५६ कर्मद्वयोज्ज्वलज्योति-र्जराविजयकारणम् । अमृतत्वं शरीरेषु दद्यादमृतनी कला ॥१५०॥ ५७ १. आधारे । २. आज्ञाउपरि । ३. स्वाधिष्ठोपरि । ४. आज्ञाउपरि । ५. आज्ञाउपरि । ६. आज्ञाउपरि । ॥१४७|| ५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy