Book Title: Anusandhan 2008 03 SrNo 43
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 32
________________ अनुसन्धान ४३ २७ प्रकटपवनचक्राकान्तचेताः शरीरं, सरलमचलमुच्चैःकृत्य नासापुटाभ्याम् । रचयति मरुतोऽन्योन्यस्य रोधं ग्रहं च स्फुटमिति धमनीति प्रोच्यते कर्म कामैः ॥३१॥ १८४ क्ष्मामण्डले वपुरधोमुखमारचय्य सङ्कोच्य कूर्म इव गात्रमशेषतोऽपि । यत् कूर्मचक्रमनुविक्रमयेन्मनः स्वं तत् कूर्मकर्म निपुणा: परिकीर्तयन्ति ॥३२॥१८५ अस्थ्युत्पत्तिस्थानकस्थायिचेता वेतालश्रीसोदरेणोदरेण । भूत्वा यत्नादुत्कटः कर्म कुर्या-दुच्छाली स्यात् तद् रसोच्छालनेन ॥३३॥१८६।७ अथ कर्मत्रयाभ्यास-मार्जनोपार्जनद्युतिः । तन्वती देहविस्फूत्ति द्योतते द्योतनी कला ॥३४॥ १८७ स्पृशति मनसि हंसस्थानकं कुञ्चयित्वा चरणयुगलमूर्वीकृत्य भून्यस्तमौलिः । करतलयुगलेनोत्तम्भितः कुण्डलेन भ्रमति तदिदमाहुः कुण्डलीकर्म सन्तः ॥३५॥१८८ भूताभ्यन्तरवारिचीरकटकं कृत्वा पदाङ्गुष्टकावूर्वाकुञ्चिकरद्वयेन पृथिवीमुद्रामनाः कर्षयन् । प्रद्योताग्नितपद्विधुभ्रमरसं येनोवंशक्तौ नयेत् पातं शक्तिनिपातनाभिधमत: कर्मेदमाचक्षते ॥३६॥ १८९ चैतन्यचक्रान्तरसंचरिष्णु स्वान्तं वितन्वन् गरुडासनस्थः । आलोडयेत् पक्षनिभौ करौ यत् प्रचक्षते तद् गरुडीति कर्म ॥३७॥ १९० ८ अथ कर्मचतुष्केन रससाम्यं वितन्वती । विधत्ते देहिनां देहं सुप्रभं सुप्रभा कला ॥३८॥ १९१ चेतसि पश्यन्तीपदगामि-न्यूज़शरीरः पृष्टगतेन । पाणियुगेनाऽऽक्रामति पार्णी पश्चिमगात्री कर्म तदाहुः ॥३९॥ १९२ ब्रह्मग्रन्थिग्रन्थिलस्वान्तवृत्तेः क्षामं कामं मध्यदेशं विधाय । यद्दीर्घाहिचालयेल्लिङ्गदण्डी-मेतद्दण्डीचालनं कर्म तत् स्यात् ॥४०॥ १९३ १. स्वाधिष्ठानोपरि । २. आधाराधः । ३. स्वाधिष्ठानोपरि । ४. मणिपूरकोपरि । ५. मणिपूरकोपरि । ६. ०ग्निविधुहुतामृतरसं प्र०। ७. आधारोपरि । ८. आधाराधः । ९. स्वाधिष्ठानोपरि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88