Book Title: Anusandhan 2008 03 SrNo 43
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
मार्च २००८
इत्थं जाते भूतजाते स्ववश्ये विश्वं पश्यनिर्विशेषादशेषम् । योगी रोगोपद्रवैर्वर्जिताङ्गः स्वस्य स्वैरं दीर्घमायुस्तनोति ॥ २२ ॥ २३२ कैश्चिन्मूढरहह । जडतावासवेश्मायमानैनिग्रन्थिग्रथितहृदयैर्दम्भसंरम्भसारैः । पिण्डस्थैर्य प्रति निजमन:संनिवेशेऽप्यनीशैरध्यात्मस्य स्फुरितममलं नीयते पङ्किलत्वम्
॥ २३ ॥ २३३ आलस्यवश्यमनसो यदि नैव सिद्धि - ोगस्य दूषणपदं न तदा वदामः । यन्नैव पङ्गुरधिरोढुमलम्भविष्णु - र्दोषः स एष किमु नाम नगेश्वरस्य ?
॥ २४ ॥ २३८ येषामालस्यपङ्कादपसरति मनो ये कृपाम्भःप्रवाहा। ये ध्वस्ताशेषदोषाः समतृणमणिता येषु जागर्ति नित्यम् । तेषां निःशेषसिद्धिव्यतिकरजनितम्राज्यस(सा)म्राज्यभाजां योगीन्द्राणामतन्द्राः परमपदभुवः सिद्धयः सम्भवन्ति ॥ २५ ॥ ३३५
इति श्री समुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे
सिद्धिप्रकरणं सप्तमं समाप्तम् ॥
|| १ ॥ २३६
यदिह परपुमर्थः प्रार्थ्यते योगिभिर्यत्() विदधति किल दास्यं तस्य ता: सिद्धयोऽपि । तदिदमपविकल्पस्वान्तसंवित्तिरूपं परमपदमिदानीमुच्यते सप्रपञ्चम् अमूर्त तरे - - त्वं कथमपि भवेन्मूर्तिकलितं स्वरूपेणाऽमूर्तं तनुपरिणतावेतदतथा । अपि स्थूलं सूक्ष्मं ध्रुवमपि न नित्यं गतगुणं गुणैरप्याक्रान्तं ननु तनुगतं सर्वगमपि
॥ २* ॥ २३७
१. संभारसारैः । २. 'तत्तत्त्वं' इति संभवेत् । * अत्र प्रतौ टिप्पिता: ३ श्लोकाः प्रकरणस्यान्तभागे द्रष्टव्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88