SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ मार्च २००८ इत्थं जाते भूतजाते स्ववश्ये विश्वं पश्यनिर्विशेषादशेषम् । योगी रोगोपद्रवैर्वर्जिताङ्गः स्वस्य स्वैरं दीर्घमायुस्तनोति ॥ २२ ॥ २३२ कैश्चिन्मूढरहह । जडतावासवेश्मायमानैनिग्रन्थिग्रथितहृदयैर्दम्भसंरम्भसारैः । पिण्डस्थैर्य प्रति निजमन:संनिवेशेऽप्यनीशैरध्यात्मस्य स्फुरितममलं नीयते पङ्किलत्वम् ॥ २३ ॥ २३३ आलस्यवश्यमनसो यदि नैव सिद्धि - ोगस्य दूषणपदं न तदा वदामः । यन्नैव पङ्गुरधिरोढुमलम्भविष्णु - र्दोषः स एष किमु नाम नगेश्वरस्य ? ॥ २४ ॥ २३८ येषामालस्यपङ्कादपसरति मनो ये कृपाम्भःप्रवाहा। ये ध्वस्ताशेषदोषाः समतृणमणिता येषु जागर्ति नित्यम् । तेषां निःशेषसिद्धिव्यतिकरजनितम्राज्यस(सा)म्राज्यभाजां योगीन्द्राणामतन्द्राः परमपदभुवः सिद्धयः सम्भवन्ति ॥ २५ ॥ ३३५ इति श्री समुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे सिद्धिप्रकरणं सप्तमं समाप्तम् ॥ || १ ॥ २३६ यदिह परपुमर्थः प्रार्थ्यते योगिभिर्यत्() विदधति किल दास्यं तस्य ता: सिद्धयोऽपि । तदिदमपविकल्पस्वान्तसंवित्तिरूपं परमपदमिदानीमुच्यते सप्रपञ्चम् अमूर्त तरे - - त्वं कथमपि भवेन्मूर्तिकलितं स्वरूपेणाऽमूर्तं तनुपरिणतावेतदतथा । अपि स्थूलं सूक्ष्मं ध्रुवमपि न नित्यं गतगुणं गुणैरप्याक्रान्तं ननु तनुगतं सर्वगमपि ॥ २* ॥ २३७ १. संभारसारैः । २. 'तत्तत्त्वं' इति संभवेत् । * अत्र प्रतौ टिप्पिता: ३ श्लोकाः प्रकरणस्यान्तभागे द्रष्टव्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy