SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४३ भूतदोषकलुषस्य जायते मानसस्य विकृतिः शुचेरपि । सन्निपातपतितस्य दृश्यते धीमतोऽपि विकलं हि चेष्टितम् ॥ १३ ॥ २२३ मानसे च विमलत्वमीयुषि क्षान्तिशान्तिकरुणाभिरावृतः । सद्विवेकसुहृदा परिस्कृ(ष्कृतः सम्मदः सरभसं विजृम्भते ॥ १४ ॥ २२८ प्रसन्नस्याऽस्तसङ्गस्य वीतरागस्य योगिनः । वृद्धिहेतुकलाभ्यासाद् भूतसिद्धिः समेधते ।। १५ ।। २२५ योऽजित्वा पवनं मोहाद् योगं युजीत योगवित् । अपक्वघटमारुह्य सागरं स तितीर्षति ॥ १६ ॥ २२६ अङ्गप्रत्यङ्गदेहांल्लधयति सुतरां स्वेच्छया वर्द्धयेच्च स्पृष्ट्वा लोष्टादि सर्वं व्यपनयति गदानौषधीकृत्य सद्यः । स्वच्छन्दं पर्वतादींश्चलयति सपदि स्थापयेच्चापि कामं पृथ्वीसिद्धौ तदेतज्जनयति जनताश्चर्यमध्यात्मसिद्धः ॥ १७ ।। २२७ शस्त्राघातपरम्परां जलभरे रेखामिवामीलयेत् 'सर्वोपद्रवविद्रवं वितनुते तोयाभिषेकक्रमात् । धातून् काञ्चनतां नयेदपि शकृन्निष्ठयूतमूत्रादिभिर्योगी सिद्धिगते जले तदखिलं चित्रं समासूत्रयेत् ॥ १८ ॥ २२८ देशैः कालैर्व्यवहितमपि व्यज्यते वस्तु दूराद् उद्योतश्री: प्रसरति तमः स्तोममुच्छिद्य सद्यः । सञ्जायन्ते तुहिनशिशिराश्चन्द्ररश्मेर्मयूखास्तेजःशुद्धौ भवति दहनः किञ्च निर्देशवर्ती ॥ १९ ॥ २२९ चेतोवृत्त्या वाञ्छितं याति देशं दूरादुक्तां वाचमुच्चैः शृणोति । स्वैरं देहानाविशेदुत्सृजेद्वा वायोः सिद्धौ सर्वमेतद् विधत्ते ॥ २० ॥ २३० शून्यं धातुर्जायते व्योमसिद्धौ तस्यां सत्यां सिद्धयस्ता: समस्ताः । उच्चैः किंच न्यञ्चिताशेषविश्वं तस्याऽवश्यं स्यात् परं धाम वश्यम् ॥ २१ ॥ २३१ १. मानुषस्य । २. क्षुद्रोपद्रव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy