________________
मार्च २००८
ऋतूनामानुगुण्येन प्रायशः सर्वधातुषु । क्षय-वृद्धी ततः कार्या ऋतुभावविभावना
.. ॥ २ ॥ २१२ चैत्रे प्रधानं जलमामनन्ति समीरणं गौणमुदाहरन्ति । वैशाखमासे जलमेव मुख्यं 'ज्येष्ठेऽम्बु मुख्यं दहनं तु गौणम् ॥ ३ ॥ २१३ आषाढमासे सलिलं प्रधानं तेजस्तु गौणं परिकीर्तयन्ति । तेजः पुनः श्रावणिके 'प्रधानं, जलं तु गौणं गणयन्ति सन्तः। ४ ॥ २१४ तेजो भवेद् भाद्रपदे प्रधानं तथाऽऽश्विने वायु-जले तु गौणे । तत् कार्तिकेऽपि प्रथमं वदन्ति वायुं पुनर्गौणतया गृणन्ति ॥ ५ ॥ २१५ स्यान्मार्गशीर्षे पवनं प्रधानं तेजस्ततोऽनन्तरमप्रधानम् । पौषे पुनर्मासि वदन्ति सन्तः समीरवीरस्य धुरन्धु(न्ध)रत्वम् ॥ ६ ॥ २१६ माघे मासे मातरिश्वा प्रधानं गौणे तेजः-पाथसी तु प्रथेते । वल्गत्युच्चैः फाल्गुने वायुराढ्य - स्तस्मात् तोयं गौणभावं बिभर्ति ॥ ७ ॥२१७ यथैव ब्रह्माण्डं बहिरखिलमुल्लेखमयते तथैवाऽन्तःपिण्डं सकलमिदमस्त्येव नियतम् । तदेवं धातूनां चयमपचयं चापि सुचिरं विचिन्त्यौचित्येन प्रगुणयति कर्माणि मतिमान्
॥ ८ ॥ २१८ इह हिरे तुहिनभानुः पूर्विकाभिः कलाभि - जनयति धरणि श्रीपुष्टिमष्टाभिराभिः । तदनु च चरमाभिस्ताभिरन्तःशरीरं भवति सलिललक्ष्मीवृद्धिसम्बन्धबन्धुः
॥ ९ ॥ २१९ षड्भिः कलाभिः प्रथमोदिताभि - र्भानोवृहद्भानुरुपैति वृद्धिम् । अन्याभिरभ्यासवशंवदाभिः स्वैरं समीरोऽभ्युदयं बिभर्ति ॥ १० ॥ २२० ततः कर्माभ्यासाद् भवति खलु भूतेषु समता चिरस्थायी कायः सकलगदकन्दव्यपगमः । शकृन्मूत्राल्पत्वं वलिपलितनिर्मूलनविधिः प्रसत्तिः सौरभ्यं द्रुतकनककल्पा द्युतिरपि
॥ ११ ॥ २२१ १. ज्येष्ठेऽपि तद् वन्यनिलौ तु गौणौ - पाठः । २. प्रवेकं = पाठः । ३. इह तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org