SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४३ चैतन्यं यस्य रूपं क्षिति-जल-पवन-ज्योति-राकाशसंजे भूतग्रामे शरीरानुकृतिपरिणते व्यज्यते सर्वतोऽपि । ' अप्यैकैकं तु तेभ्यः किमपि यदि वियुज्येत भूतं तदानी - मव्यक्तं चित्स्वरूपं भवति 'मृत' इति प्रत्ययस्याऽऽदिबीजम् ॥ ३ ॥ २३८ भूतेषु पञ्चसु शरीरतया स्थितेषु व्यक्तीभवन्मननचिन्तनतश्चिदात्मा । उन्मीलितेषु जलजन्मसु तन्मयोऽपि गन्धो यथा किमपि भिन्न इवाऽवभाति . ॥ ४ ॥ २३९ यदा चिदात्मा बहिरिन्द्रियार्थ - प्रथानुकूल्येन मनो नियुङ्क्ते । भवेत् तदानीं तदुपाधिदुःख- परम्पराऽमुष्य सुखैषिणोऽपि ॥ ५ ॥ २४० यथा हि वह्निर्बहिरिन्धनेषु लब्धावकाशो भृशमेधतेऽसौ । मनः प्रसर्पद् विषयेष्वमीषु तथैव न श्राम्यति कामचारात् ॥ ६ ॥ २४१ आत्मन्येव मनो नियोज्य विषयद्वाराणि सर्वात्मना। योगेन प्रतिरुध्य शुध्यति पुनर्योगीश्वरः कोऽपि यः । तस्य स्यादमनस्कतापरिचयात् पञ्चेन्द्रियस्याऽप्यहो । स्पष्टानिन्द्रियता ततः स्थिरतरस्तत्त्वावबोधोदयः ॥ ७ ॥ २४२ ध्यानाभ्यासाद्विषयविमुखाद् भूतसाम्योपयुक्ता - दात्मारामस्तदनु तनुते शाश्वतं स्वस्य देहम् । तस्याऽऽज्ञातः प्रभवति विषं व्याधयो वा न जन्तो - र्जीवन्मुक्तः स भवति ततः कोऽपि लोकोत्तर श्रीः ॥ ८ ॥ २४३ न किञ्चिदपि चिन्तयेत्तदनु शून्यतत्त्वं परं ततश्च सहजोदयः स्फुरति निर्विकल्पोज्ज्वलः । ततः प्रभृति नो सुखी स खलु नापि दुःखी च वा प्रमेयमवबुध्यते किमपि नापि वाञ्छत्यसौ ॥ ९ ॥ २४४ पृथिव्याद्याधारः क्षरदमृतरोचिःशुचिसुधा - कलासान्द्रः शाम्यत्तपनकरतापव्यतिकरः । 'मुहुः स्वेच्छाचर्या प्रसवभरसौरभ्यसुभगः किमप्यात्मारामः फलति परमब्रह्मणि लयम् ॥ १० ॥ २४५ १. मरुत् - प्र.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy