________________
३४
मार्च २००८
यथा हि नद्यः सरितामधीशं विशन्ति सर्वाः स्वरसप्रवृत्त्या । तथैव षण्णामपि तत्त्वमार्गाः समाधिमार्ग फलतोऽनुयान्ति ॥ ११ ॥ २४६ तथा हि शाक्यवतिनो मनोज्ञ-शय्यासनाहारविहारवन्तः । ध्यानाध्वनैकेन सयुक्ति मुक्ति - मित्थं समासादयितुं यतन्ते ॥ १२ ॥ २४७ वैराग्योपचयाद् विधूय विषयव्यासङ्गमङ्गीकृतध्यानस्थानकशुद्धिसंचितविदां नैरात्म्यतत्त्वं प्रति । पर्यायेण विलीनमानसमलप्राचीनचित्तक्षणो - न्मीलन्निर्मलचित्तसन्ततिरहो । मोहद्रुहां जायते
॥ १३ ।। २४८ मुक्तिः सैव तदेव तत्त्वमसमं निःशेषदुःखक्षयः संक्षेपात् कृतिनां स एव सुखमप्युच्चैस्तदावेदितम् । इत्थं चिन्मयमेनमात्मविभवं सम्भावयन्तः क्षणा - दध्यात्मोपनिषन्निषण्णमनसस्तस्मादमी सौगताः
॥ १४ ॥ २४९ नैयायिका अपि जनव्यवहारमात्रं संसिद्धये किमपि यत्तदपि ब्रुवन्तु । तत्त्वं तु योगविधिनैव विवेचयन्त-स्तेऽपि प्रतीतिविषयं घटयन्ति साक्षात्
॥ १५ ॥ २५० श्रोतव्यः श्रुतिशास्त्रतः स्वमनसि स्थाप्यस्ततो युक्तिभिातव्योऽथ तथा निवृत्तविषयव्यासङ्गसङ्गीतकैः । आत्मा शुद्धसमाधिबद्धमनसां येनैष साक्षाद् भवे - दित्यूचे श्रुतिरेव तत्त्वविषयज्ञानाय योगं परम्
॥ १६ ॥ २५१ योगाभ्यासादात्मतत्त्वस्य येयं साक्षाबुद्धिर्दुःखविध्वंसहेतुः ।। जीवन्मुक्तिः सैव यौगैरभीष्टा यस्यां योगी तत्त्ववाचाममधीष्टे ॥ १७ ॥ २५२ यथा दाह्यं बाह्यं दहति वनवह्निः प्रसृमर - स्ततः शाम्यत्युच्चैरधिकमधिकं तत्तनुतया । सुखं दुःखापेक्षं निखिलमपि निर्धूय सुधियां तथा तत्त्वज्ञानं स्वयमपि कृतार्थं विरमति
॥ १८ ॥ २५३ अतः संसाराब्धेस्तटभुवमभिव्याप्तजगतः परं सिद्धेर्धाम श्रयति यतिचर्यासु विमुखः । १. विलीय । २. ध्यानाभ्यासा० । ३. ततः । ४. ०मपि व्याप्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org