SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४३ तदध्यात्मक्षेमप्रणयिनि पथेऽस्मिन्नवितथे ... प्रसर्पन्तो यौगाः किमिव न भवेयुः शिवमयाः ॥ १९ ॥ २५८ कपिलकल्पिततत्त्वकथाममी तदनुगाः कथयन्तु यथा तथा । परपदं तु विशेषण एव तै-र्न खलु योगवियोगवतां मतम् ॥ २० ॥ २५५ यावद् बुद्धिर्ममत्वं सुखमसुखमिदं कर्मबुद्धीन्द्रियाणि क्लेशावेशैकहेतुः परिमितसुखकृत् किञ्च तन्मात्रमैत्री इत्येवं पूरुषस्य प्रसरति परितः प्राकृतोऽयं विकारः संसारस्तावदेव प्रकृतिविकृतिभिश्छन्नचैतन्यतत्त्वः ॥ २१ ॥ २५६ आधिव्याधिप्रजननमनःक्लेशनिर्वेशमुख्यं दुःखैकान्तं प्रकृतिजनितं सर्वतः सम्प्रधार्य । सम्यग् योगी गुणविरहितं कर्तृशक्तिव्यतीतं ध्यायेदुच्चैः स्थिरतरचिदानन्दमध्यात्ममत्त्वम् ॥ २२ । २५७ अवगतः प्रकृतेः प्रकृतिस्ततो विरमति स्वयमेव हि पूरुषात् । विदितदुश्चरिता युवतिर्यथा श्लथयति प्रणय(यि)न्यपि विभ्रमम् ॥ २३ ॥ २५८ निवृत्तव्यापारप्रकृतिरतिवृत्तेन्द्रियगणः पुमान् मोहेनाऽन्तर्बहिरपि न लिप्येत स यदा । स्वरूपं चिन्मानं निरुपधि विशुद्धं कलयतस्तदा मुक्तिस्तस्येत्यखिलमहितं योगललितम् ॥ २४ ॥ ३५९ भेदितापारसंसारदुर्यामिकाः सम्भवद्भूतवैषम्यदोषक्षयाः ।। जाग्रदुद्योगयोगप्रधानाध्वनाऽनेन साङ्ख्याः कथं निर्वृतिं नाऽऽप्नुयुः ? ॥ २५ ॥ ३६० मीमासंकाः अपि कुटुम्बकदर्थनाभि-रैदंयुगीनतनवो गतयोगरगाः । उच्चावचा यजनयाजनमुख्यकर्म-कष्टासिकां स्वमतिभिः परिकल्पयन्तु ॥ २६ ॥ २६१ यतः- स्वीकृत्य ब्रह्मचर्याश्रममसमतमब्रह्मसंस्कारहेतोः सेवित्वा धर्मपत्नीमृतुसमयमयीं शुद्धसन्तानसिद्ध्यै । १. ०कल्पयन्ति । , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy