Book Title: Anusandhan 2008 03 SrNo 43
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 53
________________ + ४८ अतस्त्वामेवोच्चैर्गुणगण ! नयामि स्तुतिपथं, वचोभिर्वाग्देवीवदनकमलामोदमधुरैः २० ॥ ११ ॥ हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननी २९, यथेच्छं कर्णाभ्यां तव गिरमथापीय मधुराम् । यथा मोदं धत्ते मनसि निभृतं नाम न तथा, सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरि (र) णीम् २ ॥ १२ ॥ त्वदन्यः पाणिभ्यामभयवरदो दैवतगणो २३, न कोऽपि त्वं वाचा जगदखिलमाह्लादयसि च । भवज्वालाजालाकलितवपुषामीश ! मनुजां, दयार्द्रा दृष्टिस्ते शिशिरमुपचारं रचयति २४ ॥ १३ ॥ विसा (शा) ला कल्याणी स्फुटरुधिरैबोधा कुवलयै २५ निरौपम्या दृष्टिर्निपतति जने पुण्यवति ते । भवद्भक्त्यासक्ते सुरमहितसम्यक्त्वसुभगे, ददाने दीनेभ्यः श्रियमनिशमाशा (शां) नु सदृशीम्६ ॥ १४ ॥ विपद्यन्ते विश्वे विधि - शतमखाद्या दिविषद २७ स्तदा सद्यः पातिन्यहह ! ममता का निजतनौ ? प्रमादं हित्वाऽतः स्तुतिपथममुं नाम नय भोः !, कवीन्द्राणां चेत:कमलवनबालातपरुचिम् ॥ १५ ॥ श्रीसंघहर्षसुविनेयकधर्मसिंह पादारविन्दमधुलिण्मुनिरत्नसिंहः । शैलात्मजास्तवपदद्वयसन्निबद्धं, स्तोत्रं चकार परमं परमेश्वरस्य ॥ १६ ॥ मार्च २००८ ॥ इति श्रीसौन्दर्यलहरीपदद्वयनिबद्धसमस्यया " आनन्दलहरी" नाम श्रीजिनपतिस्तुतिः समासमासेति मङ्गलमालिकाः प्रथयन्तु ॥ श्री जनप्रसा[T]त् ॥ श्रीः ॥ (२०) श्लो. १७, पं. ४ । (२१) श्लो. ५, पं. १ । (२२) श्लो. २८, पं. १ । (२३) श्लो. ४, पं. १ । (२४) श्लो. ३९, पं. ४ । १. 'दयार्द्रा या दृष्टिः' इति मु. प्रतौ । (२५) श्लो. ४९, पं. १ । २. रुचिरयोध्या० इति मु.प्रतौ । (२६) श्लो. ९०, पं. १ । (२७) श्लो. २८, पं. २ । (२८) श्लो. १६, पं. १ | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88