Book Title: Anusandhan 2008 03 SrNo 43
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ १६ मार्च २००८ "श्री क्लीं" ॥ शाकिनी-भूतसम्भूतदोषग्रह-प्रेतसंघातशङ्काविषोपद्रवान् । पूर्वदष्टस्य सम्भावितां भारणां दारुणामप्यसौ दारयत्यादरात् ॥८९॥ ३३(३४) ॥७ सोमस्य चक्रे चरणद्वयोर्वं न्यस्यन्नृजूत्तानितपाणियुग्मम् । स्मरन् दृशा शून्यमवेक्षमाणः प्रसन्नमूर्तिः कमलासनस्थः ॥१०॥ ३४ (३५) शीतांशुमण्डलमखण्डमनुस्मरन् यो मन्त्रं जपत्यवहितः सुहितान्तरात्मा । स व्याधिबन्धमखिलं च विषं निहन्ति सौभाग्यभाग्यमपि चाद्भुतमभ्युपैति ॥९१॥३५(३६) ॥८ "हंस छद" इत्यादि ॥ चके मानसनामनि स्फटिकवद् ध्येयप्रभेदस्फुरनानावर्णविनिर्णये नयनयोः स्वैरप्रचारं दिशन् । स्वच्छन्दासनपाणिरुज्ज्वलमतिर्यो मन्त्रमुच्चारयेत् कार्याण्यार्यमनाः स नाम कुरुते दीप्तानि सौम्यानि च ॥९२॥ ३६ (३७) ॥९ "श्लं नं" इत्यादि ॥ कायद्वारे नियमितमरुच्चारमाकारवन्ध्यं कुर्वन् वर्णाक्षरविरहितं ध्यानमध्यात्मनिष्ठः । प्राप्नोत्युच्चैरणिम-महिमाग्रेसरं सिद्धिजातं जाताभ्यासः परपदभवं वैभवं चाभ्युपैति ॥९३॥ ३७ (३८) ॥१० इति श्री समुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे ध्यानभेदप्रकरणं चतुर्थं समाप्तम् ॥ अत्र त्रियामारमणः शरीर-माप्यायते षोडशभिः कलाभिः । प्रत्येकमुल्लासिगुरूपदेशै-स्तां कर्मभिर्निर्मलतां भजन्ति ॥९४॥ १ तन्वती तनुधातूनां रूचं शङ्खविजित्वरीम् । कर्मत्रयकृतज्योति-र्योतते शङ्खिनी कला ॥९५।। २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88