Book Title: Anusandhan 2002 07 SrNo 20
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 9
________________ July-2002 चतुर्हारावलीचित्रस्तवः सटीकः ॥ ॥ द० ॥ ध्यात्वाऽऽर्हतं महत् तेजः सुखव्याख्यानहेतवे । चतुर्हारावलीचित्र-स्तवटीकां करोम्यहम् ॥१॥ इह तावद् वर्तमानातीतानागत-विहरमान-शाश्वतजिनानां चतस्रश्चतुर्विंशतिका वर्तन्ते । पादस्याऽऽद्यन्तयोर्हारानुकारविन्यस्तै-जिननामवर्णैश्चत्वारः स्तवाः । तत्राऽऽसन्नोपकारित्वात् प्रथमं तावद् वर्तमानजिनस्तवं व्याचिख्यासुः पूर्वाऽपश्चिमजिननामाक्षरहारनिबद्धं जिनद्वय-स्तवरूपं प्रथमं वृत्तामाह || स्थापना चेयं hop 'नाभिसूनो ! जिनसार्वभौ । म षध्वज ! त्वन्नतये ममे ड्जीवरक्षापर ! देहि दे बच्चितं स्वं पदमाशु वीं व्याख्या : हेश्रीनाभिसूनो ! हे जिनसार्वभौम !-सामान्यकेवलिचक्रवर्तिन् ! . वृषध्वज-वृषभाङ्क ! त्वन्नतये-त्वन्नमस्काराय मम-मे ईहा-वाञ्छा, वर्तते इति सम्बन्धः । श्रीनाभिसूनुस्तावदन्योऽपि कोऽपि भविष्यतीति आशंसानिरासार्थं जिनसार्वभौमा:- सर्वेऽप्यर्हन्तः । अतः प्रथमजिननिर्धारणाय वृषभध्वज(वृषध्वज)इति पदम् । इति पूर्वार्द्धनाद्यं जिनं स्तुत्वाऽपरार्द्धनापश्चिमजिनस्तवमाहहे षड्जीवरक्षापर ! । पृथिव्यप्तेजोवायुवनस्पतित्रसलक्षणाः षट् जीवाः, तेषां रक्षा-पालनं, तत्परः षडजीवरक्षापरः, तस्य सम्बोधनम् । हे वीर-वर्द्धमान ! त्वं आशु-शीघ्रं स्वं-निजं पदं-मोक्षलक्षणं स्थानं देहि-वितर । किंविशिष्टं पदं ? देवीभच्चितं; देव्यो देवाङ्गनाः तासां भर्तारी-देवाः, तैरर्चितं-पूजितम् । तैरप्याराधितं सर्वोत्कृष्टत्वादित्यर्थः ॥१॥ अथ द्वितीय-त्रयोविंशतितमजिनस्तवमाह ! स्थापना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 122