Book Title: Alankar Shekhar Author(s): Anantram Shastri Vetal Publisher: Krishnadas Haridas Gupta View full book textPage 6
________________ ॥ श्रीः ॥ प्रस्तावना । उपक्रमः । अथैष मुद्रापयित्वा प्रकाशयितुमुपक्रम्यते अलङ्कारशेखरो नाम श्रीमन्महाराज माणिक्यचन्द्र कारितः श्री केशवमिश्रविरचितोऽलङ्कारशास्त्रीयो ग्रन्थः । उपयोगिनो ग्रन्थस्यास्य सर्वतोऽद्यत्वे दुर्लभत्वमाक लय्य 'विद्याविलास' मुद्रणालयस्वामिना प्रेरितोऽहमेतत्प्रकाशने सोत्साहं प्रावर्तिषि । काव्यमालायां शिलायन्त्रालये च समुचितपदच्छेदाभावादिदोषबाहुल्येन यथाकथंचिन्मुद्रितचरोऽपि साम्प्रतमयं नोपलभ्यत इति प्रकाशनमस्य साम्प्रतमेव । 1 अलङ्कारशब्दस्य काव्यगतसकलविषयबोधकता | ग्रन्थग्रन्थकारयोर्यथावत्परिचयाय ग्रन्थारम्भे किमपि प्रस्तावनादिकमवश्यं लेखनीयमिति पूर्वपरम्परानुगतं पन्थानमवलम्ब्य किञ्चि त्प्रसङ्गोचितमिदानीं निरूप्यते । तत्र तावत्प्रकृतग्रन्थनामधेयविषयिण मीमांसां पुरस्कृत्य 'किं नाम अलङ्कारशास्त्रम् ? कथं चास्य काव्यशास्त्रव्यवहारयोग्यता ? केन वेदं प्रथममाविष्कृतम् ?' इति विषयानवलम्ब्य विचारः प्रस्तूयते - 'अलङ्क्रियतेऽनेनेति व्युत्पत्त्या काव्यशोभाकराणामुपमादीनामलङ्काराणामेव चमत्कृतिजनकतया विश्वेश्वरपण्डितराजानकरुय्यक विरचितयोः अलङ्कारकौस्तुभालङ्कार सर्वस्वयोः प्राधान्येन निरूपणादत्रापि 'अलङ्कारशेखरे ' अलङ्कारमात्रं प्रति• पाद्यो विषय इति कल्पना नूनं नामधेयमद्सीयमवलोक्य समुत्पद्येत, परं ग्रन्थ पर्यालोचनया स्फुटं प्रतीयेत | यदसौ कल्पना न तावत्सर्वथा सामञ्जस्यमावहति । इह खलु काव्योचिताः सर्व एव गुणदोषालङ्कारादयो विषया निरूपिताः सन्ति । अलङ्कारशब्दश्चिरन्तनात्समयालक्षणरूपकाव्यशास्त्रव्यवहार योग्यतामधिगतो दृश्यते । तथाच 'अलङ्कतिरलङ्कार' इति व्युत्पत्त्या अलङ्कारशब्दस्य सौन्दर्यपरत्वाभ्युपगमेन काव्यालङ्कारशिरोरत्नायिते अलङ्कारशेखरनाम्नि अलङ्कारग्रन्थे काव्यविषयकं गुणदोषालङ्कारादिनिरूपणं समुचितमेव । अलङ्कार.Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 152