Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 298
________________ सकरालङ्कारप्रकरणम् 249 अत्र रामकल्पमहीरुह इव राम इत्युपमायाः प्रबुद्धसुमनस्सेव्य इति बाधकं प्रमाणम् । “उपमितं व्याघ्रादिभिस्सामान्याप्रयोगे' इत्यनुशासनेन सामान्याप्रयोगस्य उपमासमासबोधकत्वात् । तस्माद्पकालङ्कार एवेति सिद्धम्। _vi) साधकेन संशयनिवृत्तिर्यथा -- 'दिगङ्गनाः पूर्वनृपालकीतौं __ क्रमेण शाट्यां शिथिलीभवन्त्याम् । आच्छादयन्त्यध यशोदुकूलं आत्मानुकूलं तव रामचन्द्र' ॥' अत्र यश एव दुकूलमिति रूपकालङ्कारे आच्छादयन्तीति साधकं प्रमाणम् । तेन यशोदुकूलयोरभेदप्रतीतेः । इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलङ्कारराघवे अर्थालङ्कारप्रकरणं संपूर्णम् । 'अर्थालङ्कारमयं प्रकरणमेतज्जगत्सु यः पठति । रामप्रसादतोऽयं भुवनालङ्कारभावमामोति ॥' 'वाक्पूजयाऽलंकृतिराघवाख्यया मदीयया दुष्करयाऽन्यपण्डितैः । सलक्ष्मणोऽयं परिवारवेष्टितो प्रीणातु रामः सह सीतया सदा॥' अलङ्कारराधः अर्थालङ्कारप्रकरणं संपूर्णम् ___ समाप्तश्चाऽयं ग्रन्थः शुभमस्तु ॥ श्रीरामचन्द्राय नमः ॥ - DESEAR 'उपजातिवृत्तमिदम् । 'आयोवृत्तम् । 'उपजातिवृत्तम् ।।

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348