________________
सकरालङ्कारप्रकरणम्
249
अत्र रामकल्पमहीरुह इव राम इत्युपमायाः प्रबुद्धसुमनस्सेव्य इति बाधकं प्रमाणम् । “उपमितं व्याघ्रादिभिस्सामान्याप्रयोगे' इत्यनुशासनेन सामान्याप्रयोगस्य उपमासमासबोधकत्वात् । तस्माद्पकालङ्कार एवेति सिद्धम्। _vi) साधकेन संशयनिवृत्तिर्यथा -- 'दिगङ्गनाः पूर्वनृपालकीतौं
__ क्रमेण शाट्यां शिथिलीभवन्त्याम् । आच्छादयन्त्यध यशोदुकूलं
आत्मानुकूलं तव रामचन्द्र' ॥' अत्र यश एव दुकूलमिति रूपकालङ्कारे आच्छादयन्तीति साधकं प्रमाणम् । तेन यशोदुकूलयोरभेदप्रतीतेः । इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलङ्कारराघवे अर्थालङ्कारप्रकरणं
संपूर्णम् । 'अर्थालङ्कारमयं प्रकरणमेतज्जगत्सु यः पठति ।
रामप्रसादतोऽयं भुवनालङ्कारभावमामोति ॥' 'वाक्पूजयाऽलंकृतिराघवाख्यया मदीयया दुष्करयाऽन्यपण्डितैः । सलक्ष्मणोऽयं परिवारवेष्टितो प्रीणातु रामः सह सीतया सदा॥'
अलङ्कारराधः अर्थालङ्कारप्रकरणं संपूर्णम् ___ समाप्तश्चाऽयं ग्रन्थः
शुभमस्तु ॥ श्रीरामचन्द्राय नमः ॥
-
DESEAR
'उपजातिवृत्तमिदम् । 'आयोवृत्तम् ।
'उपजातिवृत्तम् ।।