________________
248
- भलङ्काररावे ___ अत्र वासन्तकालकुसुमप्रकरा इवेत्युपमया शक्रमणिषट्चरणैरित्यत्र उपमा साध्यत इत्यङ्गाङ्गिभावः । तथा च षट्चरणा इव शक्रमणय इति समासः । ii) अङ्गाङ्गिभावेन विजातीयसंकरो यथा -
'रामरक्षोयशश्छामृणालच्छेदभक्षणम् ।
विदधानो यशोराजहंसस्त्रिभुवनेष्टति ॥' अत्र यशश्छद्ममृणालच्छेदत्वापहवेन यशोराजहंस इति रूपकं साध्यते । iii) एकवाचकानुप्रवेशेन संकरो यथा -
'मुकुटमिव राम मुकुटं भवतो हारोऽपि देवहार इव ।
संप्रति कुण्डलयुगलं कुण्डलयुगलमिव मण्डनं 'तनुते ||' अत्र लाटानुप्रासानन्वययोरेकवाचकानुप्रवेशेन सङ्करः । iv) सन्देहेन संकरो यथा -
' इहसु अणुआआभरणाई तावअदेहमी जाणईरमणो।
तारिसकईसराणं कलयंति मुहेसु वणणाकुअअं॥' (छाया-इह अनुरागाभरणानि तावकदेहे जानकीरमणः ।
तादृशकपीश्वराणां रचयन्ति मुखेषु वर्णनाकुतुकम् ॥
अत्र सुगुणाभरणानि इत्यत्र रूपकोपमयोः सन्देहेन सङ्करः । सुगुणा एवाभरणानि, आभरणानीव सुगुणाः इत्युभयथापि समाससंभवात् । साधकबाधकप्रमाणाभावे सन्देहस्य न्यायप्राप्तत्वात् । तयोः सद्भावे तु सन्देहनिवृत्तिरेव । v) तत्र बाधकसत्वे सन्देहनिवृत्तिः यथा -
'मासं तापं कृथाचित्रे सेव्यतां जनसन्ततम् ।
प्रबुद्धसुमनः सेव्यो रामकल्पमहीरुहः ।।' आर्यावृत्तम् ।