________________
सङ्करालंकारप्रकरणम्
241
:
i) अथ सङ्करो निरूप्यते - 'क्षीरनीरन्यायेन अलंकाराणां मिथस्संबन्धे *संकरः' .. स त्रिविधः । अङ्गाङ्गिभावेन, एकवाचकानुप्रवेशेन, सन्देहेन च । ii) अत्र अङ्गाङ्गिभावेन सजातीयसंकरो यथा - .. 'रामेण वक्षसि धृता नवमौक्तिकाढ्याः
हारा विहारवसतौ जनलोचनानाम् । प्रायेण शक्रमणिषट्चरणविभान्ति .....
. वासन्तकालकुसुमप्रकरा इवाद्य ॥' * 1 ‘अविश्रान्तिजुषाम् आत्मन्यङ्गाङ्गित्वं तु सङ्करः
एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ स्फुटमेकत्र विषये शब्दार्थालंकृतिद्वयम् । व्यवस्थित च तेनासौ त्रिरूपः परिकीर्तितः ॥'
काव्यप्रकाशः-१० उल्लासः] । 'क्षीरनीरनयाद्यत्र संबन्धः स्यात् परस्परम् । अलंकृतीनामेतासां सङ्करः स उदाहृतः ॥'
[प्रतापरुद्रीये-अलङ्कारप्रकरणम् ] कथितस्तु सङ्करोऽयं त्रिविधो यः क्षीरनीरवद्भवति ।'
(एकावली ८ उन्मेषः-७६ का] 'क्षीरनीरन्यायेन तु सङ्करः- मिश्रत्व इत्येव । अनुत्कटभेदत्वमुत्कट
भेदत्वं च सङ्करः । तच्च मिश्रत्वम् अङ्गाङ्गिभावेन, संशयेन, एक वाचकानुप्रवेशेन च त्रिधाभवत्सङ्करं त्रिभेदमुत्थापयति ।
[अलङ्कारसर्वस्वम्] . ६ वसन्ततिलकावृत्तम् ।