________________
246
iii) अर्थालंकारसंसृष्टिर्यथा -
-
"
ii) तत्र शब्दालंकारसंसृष्टिर्यथा नटकुले निकटे नटनोद्यते सकटकं घटयन्मुकुटं स्फुटम् । अधित दाशरथिर्धरणीधुरं सफणदं धणदंधणदुन्दुभि || '
अत्र वृत्यनुप्रासयमकयोः संसृष्टिः ।
1
2
अत्र तद्गुणार्थान्तरन्यासयोः संसृष्टिः । उभयसंसृष्टयोरपीदमेवोदाहरणम् । वृत्त्यनुप्रासस्य च अत्र संभवात् ।
*
अलङ्कारराघवे
' गच्छति रागमनुष्या नासामणिरधरबिम्बरागेण ।
9
निवसति रागिणि निकटे प्रभवति रागी हि वीतरागोऽपि ॥
सकटकं यथा तथा समीपे नटवर्गे नाट्यप्रवृत्ते सति, दुन्दुभौ फणदं धणदं, धणदं इति शब्दायमाने सति, मुकुटं धृत्वा रामः भूभारं धारयामास । अर्थात् राज्यं स्वीकृतवानित्यर्थः । अत्र 'अधित' इति क्रियापदम् । धृतवान् इत्यर्थः । डुधाञ् धारणपोषणयोः इति धातोः लुङ् लकारे प्रथमपुरुषैकवचनान्तं रूपम् । द्रुतविलंबितवृत्तमिदम् । 'द्रुतविलंबितमाह नभौ भराविति' वृत्तरत्नाकरे तल्लक्षणम् ।
आर्यावृत्तमिदम् ।
.