________________
संसृष्टयलङ्कारप्रकरणम्
245 ॥ अथ संसृष्टिसङ्करपेटिका ॥ . अस्याः पेटिकायाः परिशिष्टत्वादन्ते निवेशः । उक्तानामलङ्काराणां परस्परसंबन्धेन संसृष्टिसङ्कराख्यावलङ्कारधुरन्धरौ भवतः । ननु उक्तालङ्काराणां तत्तदलङ्कारत्वेनैव काव्यचारुत्वहेतुत्वसिद्धेः संसृष्टिसंकररूपालङ्कारकल्पनं व्यर्थमेव स्यादिति चेदुच्यते । यथा लौकिकहारकेयूरादीनामलङ्काराणां पृथगेव चारुत्वहेतूनामपि परस्परसंबन्धेन चारुत्वातिशयहेतुत्वं तथैव शब्दार्थालकाराणामपि परस्परसंबन्धेन चारुत्वातिशयहेतुत्वात् अलङ्कारधुरन्धरत्वकल्पनं युक्तमेव । स च संबन्धः संयोगसमवायभेदात् द्विविधः । तत्र तिलतण्डुलन्यायेन संबन्धे संयोगः । क्षीरनीरन्यायेन संबन्धे समवायः । _i) तत्र संसृष्टिनिरूप्यते
'तिलतण्डुलन्यायेनालङ्काराणां मिथः संबन्धे *संसृष्टिः ।'
असौ त्रिविधा । शब्दालङ्कारसंसृष्टिः अर्थालङ्कारसंसृष्टिः उभयालङ्कारसंसृष्टिश्चेति । * ' 'सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ।
एतेषां समनन्तरमेवोक्तस्वरूपाणां यथासंभवम् अन्योन्यनिरपेक्षतया यदेकत्र शब्दमागे एव, अर्थविषये एव उभयत्रापि वा अवस्थानं सा एकार्थसमवायस्वभावा संसृष्टिः ।' [काव्यप्रकाशः-१० उल्लासः] . 'तिलतण्डुलसंश्लेषन्यायाधत्र परस्परम् । संश्लिष्येयुरलङ्काराः सा संसृष्टिर्निरूष्यते ॥' यत्र तिलतण्डुलन्यायेन परस्परसंबद्धा रूपकादयो भवन्ति सा संसृष्टिः।'
प्रतापरुद्रीये-अलङ्कारप्रकरणम् ] ''एषां तिलतण्डुलवन्मिश्रत्वेनाभ्यधायि संसृष्टिः ।'
___[एकावली-८ उन्मेषः-७६ का] • 'एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टिः ।' [अलङ्कारसर्वस्वम् ]