________________
244
अलङ्कारराघवे
परस्य परस्य पूर्व पूर्व प्रति विशेषणतयापोहनमेकावलीत्युक्ते तादृशस्थापनरूपैकावल्यामव्याप्तेः। समुच्चितोभयविवक्षायाम् असंभवापत्तेः । तदुभयान्यतरविवक्षा न युक्ता । अन्यतरशब्दार्थस्य दुर्निर्वचत्वात् । तस्मान्न तानि लक्षणानि युक्तानि । किन्तु विद्यानाथलक्षणमेव युक्तमिति वयं तु भणामः । सा द्विविधा । स्थापनरूपा अमोहनरूपा चेति । अपोहनं निषेधः ।
j) तत्र स्थापनोदाहरणम् - ''मणयो भूषणैान्ति भूषणानि खरद्विषः ।
अङ्गेनाऽङ्गं निसर्गेण निसर्गः स्वयमज्वलः ॥' ii) अपोहनोदाहरणम् - ''न तत्कवित्वं भुवि येन काव्य
निर्मीयते नोज्वलबन्धरम्यम् । काव्यं न तद्यत्र रघूत्तमस्य __ न विद्यते भूषणवर्णनैक्यम् ||'
-0मणयः भूषणैर्भान्ति । खरद्विषः-रामस्य भूषणानि अङ्गेन भान्ति । अङ्गं निसर्गेण भाति । निसर्गः स्वयमुज्वलः वर्तते इत्येवं क्रमेण अन्वयः कार्यः । उज्वलमनोहारिणं पदबन्धं विना निर्मित काव्यं कवित्वमेव न । रामभूषणवर्णनैक्यं विना विद्यमानं काव्यं काव्यमेव न इति निषेधरूपैकावली । अत्र उज्वलहारिपदबन्धयुतं काव्यमेव कवित्त्वम् । अन्यन्न । रामालङ्कारवर्णनयुतं काव्यमेव काव्यम् अन्यन्न इति भाव्यम् ।।
उजापतिवृत्तम् । ''त' प्रतो ' भूषणदर्शनकम् ' इति पाठः वर्तते । किन्त्वत्र अर्थानुरोधात् 'भूषणवर्णनैक्यम्' इति 'न' प्रतिपाठः स्वीकृतः । ..