________________
सारालङ्कारप्रकरणम्
243
'वस्तुस्पृहणीयत्वे विश्रान्ति चेद्यथोत्तरं तनुते । सारो नाम तदानीं कथितोऽलङ्कारज्ञैः ॥' इत्येकावळीकारः । ।
'उत्तरोत्तरमुत्कर्षः सारालंकार उच्यते' इति विद्यानाथः । . निगदव्याख्यातानि लक्षणानि । उदाहरणानि -
'जगत्सु देवता भाति देवतायां च राघवः । राघवे रत्नमुकुटं मुकुटे रुचिमण्डलम् ॥' अत्र उत्तरोत्तरं प्रकाशोत्कर्षः ।
-0
॥ अथ एकावल्यलङ्कारः ॥ अस्यापि पूर्ववत्पेटिकासङ्गतिः । परिशेषात् पूर्वानन्तर्यमित्यवान्तरसङ्गतिः। 'यथापूर्व परस्य विशेषणतया स्थापनापोहने एकावली'
.
इत्यलङ्कारसर्वस्वकारः । 'स्थाप्यतेऽपोह्यते वाऽपि यथापूर्व परं परम् । विशेषणतया यत्र वस्तु सैकावली द्विधा ॥'
इति काव्यप्रकाशकारः । 'परम्पराक्रमात् पूर्व पूर्व प्रति विशेषणम् । स्थापनापोहनाभ्यां च सेयमेकावली द्विधा ||'
.. इति साहित्यचिन्तामणिकारः । 'यत्रोत्तरोत्तरेषां स्यात् पूर्व पूर्व प्रति क्रमात् । विशेषणत्वकथनमसावेकावली मता ॥' इति विद्यानाथः ।
तत्र आद्यद्वितीयतृतीयलक्षणानि न युक्तानि । परस्य परस्य पूर्व पूर्व प्रति विशेषणतया स्थापनमेकावलीत्युक्ते तादृशापोहनरूपैकावल्यामव्याप्तेः ।