________________
242
भलङ्कारराघवे
'यत्रोत्तरोत्तरगुणावहत्वमुल्लसति पूर्वपूर्वस्य । तदिदं मालादीपकमित्याम्नातं विपश्चिद्भिः ॥'
इत्येकावलीकारः । ' यदा तु पूर्वपूर्वस्य सम्भवेदुत्तरोत्तरम् ।
प्रत्युत्कर्षावहत्त्वं तन्माला'दीपकमुच्यते ॥' इति विद्यानाथः । निगदव्याख्यातानि लक्षणानि । उदाहरणम् -
'रत्नविभाति मुकुटं मुकुटेन मूर्धा - मू| च मैथिलसुतारमणस्स रामः । रामेण सर्वभुवनं भुवनैश्च कृस्न
ब्रह्माण्डमाण्डममुनापि च विश्वमूर्तिः ॥'
1. ॥ अथ सारालंकारः ॥ । अस्य पूर्ववत्पेटिकासङ्गतिः । अस्याप्युत्कर्षगर्भत्वेन मालादीपकानन्तर्यमित्यवान्तरसङ्गतिः ।
''उत्तरोत्तरमुत्कर्षस्सारः' इत्यलकारसर्वस्वकारः । ' 'मालादीपकमाद्यं चेत् यथोत्तरगुणावहम् ' -
[काव्यप्रकाशः-१० उल्लासः] * वसन्ततिलकावृत्तम् ।
उत्तरोत्तरमुत्कर्षणमुदारः' इति अलङ्कारसर्वस्वकारलक्षणम् । पाठान्तरे ' ' उत्तरोत्तरमुत्कर्षस्सारः' इति वर्तते । पाठान्तर एव अत्र स्वीकृतः । 'उदारः' इत्यपि अस्य नामान्तरमित्यवगम्यते [अलङ्कारसर्वस्वम्पृष्ठसं १४२]। बांबे निर्णयसागरमुद्रणालयकाव्यमालाप्रकाशनम् काव्यमाला ३५, १८९३ इसवी]