SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ कारणमालालङ्कारप्रकरणम् 241 'यद्यत्पूर्व तत्तद्यथोत्तरं चेत् क्रमेण संश्रयति । हेतुत्वं भवति तदा कारणमालेत्यलङ्कारः ॥' इति विद्याधरः। 'पूर्व पूर्व प्रति यदा हेतुः स्यादुत्तरोत्तरम् । तदा 'कारणमालाख्यमलंकरणमुच्यते ॥' इति विद्यानाथः । निगदव्याख्यातानि लक्षणानि । उदाहरणम् - 'सुकृतेन मतिर्मतितः कविता कविताविभवेन कृतिर्विमला । कृतितो रघुनाथतनूस्सदलंकृतिवर्णन मेतदतीव फलम् ॥' ॥ अथ मालादीपकालंकारः ॥ अस्यापि पूर्ववत्पेटिकासङ्गतिः। पूर्वपूर्वस्योत्तरोत्तरं प्रति हेतुत्वरूपकारणमालानन्तरं पूर्वपूर्वस्योत्तरोत्कर्षावहत्वरूपमालादीपकस्य बुद्धिःस्थत्वात् प्रासङ्गिक्यवान्तरसङ्गतिः। तत्र - 'पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम्' . इत्यलङ्कारसर्वस्वकारः । 'यथोत्तरं चेत्पूर्वस्यार्थस्य हेतुता। तदा कारणमाला स्यात् ।। (काव्यप्रकाशः-१० उल्लासः) ' 'मेतदेदवफला' इति 'त' प्रतौ अशुद्धः पाठः दृश्यते । 'न' प्रतावपि अशुद्धपाठ एव । 'मेतदतीवफलम् ' इति शोधितः । ' तोटकवृत्तम् । ‘इह तोटकमम्बुधिसैः कथितम्' इति तल्लक्षणं वृत्तरलाकरे ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy