________________
240
एकस्मिन् कारणे कार्यसाधनेऽन्यत् परापतेत् काकतालीयनियतः स 'समाधिरुदीयते ||
"
1
"
2
निगदव्याख्यातानि लक्षणानि । उदाहरणम् ' खयमाहृतैश्व कुसुमै रघूत्तमे दयिताकचत्र जमलं चिकीर्षति । वनपादपः पवनघातपातितैः प्रसवैर्नवैर्मुहुरलंचकार तम्' | '
इति विद्यानाथः ।
॥ अथ शृङ्खलान्यायपेटिका ॥
वाक्यन्यायपेटिकानन्तरं परिशिष्टशृङ्खला न्यायपेटिकानिरूपणमुचितमिति पेटिकयोस्सङ्गतिः ।
|| अथ कारणमालालंकारः ॥
तत्र कारणमालालङ्कारः प्रथमं निरूप्यते । अस्य शृङ्खला न्यायमूलत्वेन पेटिकासङ्गतिः । समाध्यलङ्कारपदस्यापि कारणगर्भत्वात् तदानन्तर्यमित्यवान्तर
सङ्गतिः । तत्र
"
पूर्वस्य पूर्वस्य उत्तरोत्तर हेतुत्वे कारणमाला
अलङ्कारराघवे
"
हेत्वन्तरसंबन्धात् स्फूर्जति कार्यस्य यत्र सौकर्यम् । स समुच्चयसादृश्यात् समाधिनामात्र निर्दिष्टः ॥
इत्यलङ्कारसर्वस्वकारः ।
(एकावळी - ८ उन्मेषः - ५९का)
मज्जुभाषिणीवृत्तमिदम् । 'सजसाजगौ भवति मञ्जुभाषिणीति ' तल्लक्षणं वृत्तरत्नाकरे ।