Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
अनुबन्धः
।
104
107
12) अतिशयोक्त्यलंकारलक्षणम् –
'भेदे अभेदः, अभेदे भेदः, संबन्धे असंबन्धः, असंबन्धे संबन्धः एवंविधैकैकरूपत्वाधिकरणत्वे सति कार्यकारणविपर्ययरूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधि.
करणमतिशयोक्तिः' 13) सहोक्त्यलंकारलक्षणम् -
विद्यानाथलक्षणमेवाङ्गीकृतम् । तत्तु
'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः ।
कल्पितौपम्यपर्यन्ता सा सहोक्तिरितीष्यते ॥' 14) सहितोक्त्यलंकारलक्षणम् - i) — अनेन वस्तुसंबन्धो यत्रैकद्वारतो भवेत् ।
सा सहोक्तिसमानाङ्गा सहितोक्तिरितीर्यते ॥ ii) ' यत्र अनेकपदार्थानामेकद्वारा अन्वये अतिशयोक्त्या सिद्धे
उपमानोपमेयभावः कल्प्यते तत्र सहितोक्तिः । 15) विनोक्त्यलंकारलक्षणम् -
'रम्यतावत्त्वे सत्यरम्यत्वरहितं रम्यत्वारम्यत्वोभयाभावानधिकरणम् एकेनापि विना भूतं वस्तु यत्रोपनिबध्यते सा
विनोक्तिः 16) समासोक्त्यलंकारलक्षणम् -
'अश्लिष्टविशेष्यत्वे सत्यविशेषणतौल्यनिबन्धनाप्रस्तुतव्यक्तेरप्रधानत्वे सति प्रस्तुतविशेषणसाम्यात् अप्रस्तुतव्यक्तित्वं समासोक्तिः
110
113
116

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348