Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 956
________________ उद्देशकः-१०, मूलं-२५१, [ भा. ४२२९] ४७१ - वृ. किं कारणं स्वगणादपक्रमणं क्रिया सूरिराह-स्थविराणामाचार्याणां संलेखनातपोभिः क्लान्तानामिह स्वगणे अभ्युद्यते भक्तपरिज्ञा लक्षणमरणे समुपस्थितानां शिष्याणां आचार्यानुरागेण रोदनक्रन्दनादीनि कुर्युः । रोदनादिकं च तेषामाका श्रुपातं दृष्ट्वा तेषामुपरिकारुण्यमुपजायते । ततो व्याधातः । अन्यच्च__भा. [४२३०] सगणे आणाहानी अप्पत्ति य होइ एवमादीयं । परगणगुरुकुलवासो अप्पत्ति य वज्झितो होई ।। वृ. यो गणधरः स्थापितस्तस्याज्ञां केचित् कुर्वन्ति तथा केषांचिदपकरणनिमित्तमप्रीतिरादिशब्दान् गणभेदो बालादीनामुचिताधकरणदर्शनमित्यादि परिग्रह: । तत एवं स्वगणे आज्ञाहारनिरप्रीतिरसेवनादिकं ध्यानव्याघातकारणमुपतिष्टते। ततः, परगणे गत्वा भक्तप्रत्याख्यानं प्रतिपद्यते । यत एवं गुरुकुलवास आसेवितो भवति । किं विशिष्ट इत्याह-प्रीतिवर्जितोऽप्रीतिश्च समस्तापि परिहता भवतीति भावः । अप्रीत्यादिकं यथा स्वगणे भवति तथा प्रदर्शयति । भा. [४२३१] उवगरणनिमित्तं तु वुग्गहं दिस्सवा विगणभेयं । बालादी थेराण व उचियाकरणमि वाघातो।। वृ.उपकरणनिमित्तं साधूनामाचार्ये कृतभक्तप्रत्याख्याने व्युद्ग्रहः कलहो भवति । अथवा तं गणधरं केचिन्न मन्यन्ते ततः स्वस्वपक्षे परिग्रहो गणभेदस्तत एवमुपकरणनिमित्तं गणभेदं दृष्टवा उपलभ्य तथा बालादीनां बालवृद्धासहग्लानादीनां स्थविराणां चात्र विकरणे उचितकरणादर्शनेऽप्रीतिरुपजायते । तथा चाप्रीत्या ध्यानव्याघातः । अयं च परगणे प्रतिपन्ने गुणः । भा.[४२३२] सिनेहो पेलवो होइ निग्गते उभयस्स उ। आहच्च वावि वाधातो वा सेहादि विउब्भमो।। वृ.स्वगणानिर्गतोभयस्यापि गणस्याचार्यस्य वा स्नेह: परस्परं पेलवः प्रतनुर्भवति । अन्यच्च आहच्च-काचित् प्रथमपरीपहेनत्याजितस्य भक्तपरिज्ञां यो व्याघातेऽपि विलोप: स्यात्, तस्मिन् व्याघातेन स्वगणात् शैक्षकादीनां व्युद्ग्रहो जायते आघातपरिज्ञानाभावात्। अथवा विपरिणामोऽपि स्यात्, तथाहि स्वगुणे स्थितं भग्नपरिझं जानन्ति । ज्ञात्वा च सर्वां अपि प्रतिज्ञा एतेषामीदृशा एवेति विपरिणामं गत्वा संयम लोपयन्ति । सम्प्रति सोतिद्वारमाह-- भा.[४२३३] दव्वसिती भावसिती अनुयोगधराण जेसिमुवलद्धा। नहु उड्मगमनकाट्ठा हेडिल्लपयं पसंसंति। भा.[४२३४] संजमट्ठाणेणं कंडगाणालसाविती विसेसाणं । उवरिल्लपयकमलं भावसिती केवलं जाव ॥ वृ.सितिनाम ऊर्ध्वमधो वा गच्छत: सुखोत्तरोवतारहेतुः पन्थाः । सा द्विधा-द्रव्ये भावे च। तत्र द्रव्येशितिनि:श्रेणिः सा द्विधा ऊर्ध्वगमने च तत्र अधोगमने च तत्र ययाधस्तनात् भूमिग्रहादि-- ष्ववतीर्यते साऽधो गमने, ययोज़परिमाणे आरुह्यते सा ऊर्ध्वगमने, भावशीतिरपि द्विधा प्रशस्ताऽप्रशस्ता च । तत्र यैहेतुभिस्तेषामेव संयमस्थानानां संयमकंडकानां लेश्यापरिणामविशेषाणां वा अधस्तात् संयमस्थानेष्वपि गच्छति, सा अप्रशस्ता भावशीतिः यैः पुनर्हेतुभिस्तेषामेव संयमादिस्थानानामुपरितनेषूपरितनेषु विशेषेष्वध्यारोहति, सा प्रशस्तोच्चोपरितन एव क्रमेण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046