Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1007
________________ ५२२ व्यवहार-छेदसूत्रम्-२- १०/२५३ करे नाम एगे नोगणट्ठकरे २ एगे गणटकरे विमानकरे वि ३ एगेनो गणट्ठकरे नो मानकरे४ । वृ.अस्याक्षरगमनिका सुप्रतीता। प्रपञ्चो भाष्यकृदाह ।। भा.[४५६४] एमेव होंति भंगा चत्तारिगणकारिणो जइणो। रनो सारूविय देवचिंतगा तत्थ आहरणं॥ वृ. एमेवानन्तरसूत्रोक्तप्रकारेण गणार्थकारिणोऽपि यतेश्चत्वारो भङ्गा भवन्ति। ते च सूत्रतः स्पष्टा एव। तेषु च चतुर्ध्वपि पुरुषजातेषु ये सारूपिका यते: समानरूपधारिणो मुण्डितशिरस्का भिक्षाटनशीला इत्यादि प्रागुक्तस्वरूपा देवचिन्तका नाम ये शुभाशुभं राज्ञः कथयन्ति ते आहरणं दृष्टान्तस्तमेव भावयतिभा.[४५६५] पुट्ठापुट्ठो पढमो उसाहइं न उ करेइ मानं तु। बितिउमानकरेइं पुट्ठो विना साहई किंचि ।। भा.[४५६६] तइओ पुट्ठो साहइ नो पुट्ठ चउत्थमेव सेवइ उ। दो सफला दो अफला एवं गच्छे वि नायव्वा ।। वृ. प्रथमो राज्ञा पृष्टोऽपृष्टो वा यत्र शुभाशुभं वा साधयति, न मानं करोति, द्वितीयो मानं करोति, न च मानादेव पृष्टोऽपि किंचित् कथयति । तृतीयः पृष्टः नापृष्टश्चतुर्थः सेवते एव राजानं नेति। अत्र द्वौ प्रथमतृतीयो सफलौ द्वौ च द्वितीयचतुर्थावफलौ एवममुना दृष्टान्तगतेन प्रकारेण गच्छेऽपि द्वौ प्रथमतृतीयौ सफलौ द्वौ च द्वितीयचतुर्थावफलौ च ज्ञातव्यौ । तेषां चतुर्णामपि स्वरूपमाहभा.[४५६७) आहार उवहि सयनाइ एहिं गच्छस्सुपग्गहं कुणति। बिइओ मानं उभयं च तइओ नोभय चउत्थो।। वृ. प्रथम आहारोपधिशयनादिभिर्गच्छस्योपग्रहं करोति न च मान, द्वितीयो मानः तृतीय उभयं गच्छस्योपग्रहं मानं च, चतुर्था नोभयं गच्छस्योपग्रहं नापि मानमिति। मू.(२५४ )चत्तारिपुरिसज्जाया पनत्तातं जहा-गणसंगहकरे नामंएगे नो मानकरे। एगे मानकरे नो गणसंगहकरे। एगे गणसंगहकरे वि मानकरेवि। एगे नो गणसंहकरे नो मानकरे।। वृ. अत्र सम्बन्धमाहभा.४५६८] सो पुन गणस्स अट्टो संगहो तत्थ संगहो। दुविहो दव्वे भावे नियगा उदोन्नि आहारनाणादी ।। वृ. अनन्तरसूत्रे गणार्थकर उक्तः स पुनर्गणस्यार्थं वा संग्रहस्ततसंग्रहकरप्रतिपादनार्थमिदं सूत्र। तत्र सङ्घहो द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्ये भावे च द्वौ त्रिको द्रष्टव्यौ तद्यथा-आहारादिकं द्रव्ये ज्ञानादित्रिकं भावे तदेवं संग्रहं व्याख्याय संग्रहकरत्वयोजनामाहभा.[४५६९] आहारोवहिसेज्जाइएहिंदव्वंमि संगहं कुणइ। सीस परिच्छे वाए भावे न तरंति जाहे गुरू॥ वृ. द्रव्यतः संग्रहं करोति आहारोपधिशय्यादिभिरत्रादिशब्द आहारादीनां स्वगतानेकभेदसूचकः । भावे न यदा गुरवः शक्नुवन्ति तथा शिष्यान् प्रतीच्छिकान् वा वाचयति। एष प्रथमः पुरुषः। द्वितीयो मानं करोतिन तु द्रव्यतो भावतो वा गणस्य संग्रह, तृतीय उभयं, चतुर्थो नोभयमितिा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046