Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५२४
व्यवहार-छेदसूत्रम्-२- १०/२५७ भा.[४५७४] हेट्ठामंतरसुत्ते गणसोही एस सुत्तसंबंधो।
सोहत्ति व धम्मोत्ति व एगटुं सो दुहा होइ ।। वृ.अधस्तनेऽनन्तरसूत्रे गणस्य शोधिरुक्ता। शोधिरिति वा धर्मो इति वा एकार्थः । स च धर्मो द्विधा भवति रूपतो भावतश्च तत्र तत्प्रतिपादनार्थमिदं सूत्रमित्येष सूत्रसम्बन्धः। भा.[४५७५] रूवं होति सलिगं धम्मो नाणादियं तियं होइ।
रूवेण य धम्मेण य जढमजढे भंगचत्तारि॥ वृ. रूपं नाम भवति स्वलिंगं रजोहरणादिधर्मो ज्ञानादिकं त्रिकं रूपेण च त्यक्तेऽत्यक्ते च भंगाश्चत्वारः। तेन सूत्रपाठसिद्धा एव तेषां विषयभागमाहभा.[४५७६] रूवजढमन्त्रलिंगे धम्मजढे खलु तहा सलिंगम्मि।
उभयजढो गिहिलिंगे दुहितो सहिओ लिंगेन ॥ व.रूपं त्यक्तं येन स धर्मस्वरूपत्यक्तः सुखादिदर्शनात्पाक्षिकः त्यक्तस्य परनिपातः । सोऽन्यस्य लिङ्गे द्रष्टव्यः । इयमत्र भावनाभावतो ज्ञानादित्रिकसमन्वितः कारणवशेनान्यलिङ्गं गृहलिङ्ग वा यः प्रतिपद्यते । अत्र निदर्शनं यथा-कोऽपि राजा महामिथ्यादृष्टि स्तिकवादी वावदूक: पण्डिताऽभिमानी दर्शनिभिः सह वादं दत्वा तद्भुद्धिमुपजीव्य दर्शनिनो हीलयति। अन्यदा साधूनुपद्रावयितुं प्रवृत्तो मया सह वादो दीयतां । तत्रैक: साधुर्वादलब्धिसम्पन्नः खचरलब्धिमानभूत् सङ्घस्यापभ्राजनेति गृहिलिङ्गमन्यलिगंवा कृत्वा राज्ञः समीपे वादेनोपस्थितः प्रवृत्तो द्वयोरपि वादः । तत्र राजाऽल्पशक्तिकत्वात् स्वपक्षं निर्वाहयितुमशक्नुवन हीलनां तस्य कृतवान्। ततः स वाददर्पस्फेटनाय तस्य राज्ञो मूर्धानं पदेनाक्रम्याकाशेन वायुरिव पलायित्वा। स्वस्थानं गतः एतदेवाहभा.[४५७७] तस्स पंडियमानस्स बुद्धिलस्स दुरप्पणो।
मुद्धं पाएण अकम्म वादी वाउरिवागतो॥ वृ.तस्य नास्तिकवादिनो राज्ञः पण्डितमानिनो बुद्धिः परस्य बुद्धि लात्युपजीवति इति बुद्धिलः तस्य दुरात्मनो मूर्धानं पादेनाक्रम्यवादी वायुरिव पलायित्वा स्वस्थानमागतः । एष प्रथमपुरुषो द्वितीयो धर्मत्यक्तो नरूपत्यक्त इत्येवं रूपः खलु स्वलिङ्गे सति प्रतिपत्तव्यः । स च पार्श्वस्थादीनामन्यतमो निष्कारणप्रतिसेवी अवधावितुकामो वा वेदितव्यः । तस्य भावतस्त्यक्तधर्मत्वास्वलिङ्गस्य च धारणादिति। उभयजढो गिहिलिङ्गेइति उभयत्यक्तो मिथ्यादृष्टिहिलिङ्गेवर्तमान उभयसहित: स्वलिङ्गेन सहितो ज्ञानादित्रिकोपेतः।
मू.( २५८)चत्तारि पुरिसज्जाया पन्नत्ता तं जहा-गणसंहिति नामेगे जहति नो धम्म, एगे धम्मं जहति, नो गणसंद्विति। एगे धम्मपि जहति गणसंद्विति पिएगेनो धम्मं जहति नो गणसंविति।। भा.[४५७८] गणसंट्ठिति धम्मे या चउरो भंगा हवंति नायव्वा।
गणसंट्ठिति असिस्से महकप्पसुयं न दायव्वं । वृ.पूर्वप्रकारेण गणसंस्थितौ धर्मे च भङ्गाश्चत्वारो भवन्ति ज्ञातव्यास्ते च तत्र पाठसिद्धा एव गणसंस्थिति म गणस्य मर्यादा यथा अशिष्येऽयोग्ये शिष्ये महाकल्पश्रुतं न दातव्यम्। सम्प्रति चतुर्णामपि भङ्गाना विषयविभागमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046