Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 999
________________ व्यवहार-छेदसूत्रम्-२- १०/२५१ यस्य बह्यपि श्रुतं न विस्मृतिपथमुपयाति स श्रुतबहुश्चुतः । अथवा बहुश्रुतोऽपि सन् यस्तस्योपदेशेन वर्तते स मार्गानुसारि श्रुतत्वात् सुश्रुत बहुश्रुत: तथा तस्मिन् तथा विशिष्टो विनयौचित्यान्वितो वाक् परिपाको विशुद्धिर्यश्च यस्मिन् पुरुषे प्रयोक्तव्यः । एतदेवाहभा.[४५०६] एएसु धीरपुरिसा पुरिसजाएसु किंचि खलिएसु । रहिएवि धारयंता जहारिहं देंति पच्छित्तं ।।। वृ. एतेष्वनन्तरोदिते गुणसम्पन्नेषु पुरुषजातेषु किचिन्मनाक् प्रमादवशान्मूलगुणविषये उत्तरगुणविषये वा स्खलितेषु रहितेऽपि असत्यप्यादिभे व्यवहारत्रये धीरपुरुषा अर्थपदानि कल्पप्रकल्पव्यवहारगतानि कानिचित् धारयित्वा यथार्ह ददति प्रायश्चित्तं । सम्प्रति रहिएवि धारइत्ता इतस्य व्याख्यानमाहभा. [४५०७] रहिए नाम असन्ने आइल्लम्मि ववहारतियगंमि। ताहेवि धारइत्ता वीमसेऊण जं भणियं ॥ वृ. रहिते नाम असति अविद्यमानके व्यवहारत्रिके सति ततोपि धारयित्वा यद्भणिते भवति ।किमुक्त भवति? विमृश्य पूर्वालोचनेन देशकालाद्यपेक्षया सम्यक् छेदश्रुतार्थं परिभाव्य किमित्याहभा.[४५०८] पुरिसस्स अइयारं वियारइत्ताण जस्स जं जोग्गं। तं देंति उ पच्छित्तं जेणं देंती उतं सुणए । ७. पुरुषस्यातीचारं द्रव्यत: क्षेत्रतः कालतो भावतश्च विचार्य यस्य यदहँ प्रायश्चित्तं तस्य तत् ददाति । आचार्यः प्राह-येन ददाति तत् श्रृणु । तदेवाहभा.[४५०१] जो धारितो सुत्तत्थो अनुओगविहीए धीरपुरिसेहि । आलीणप्रलीणेहिं जयणाजुत्तेहिं दंतेहि ।। वृ. यो नाम धीरपुरुषैरालीनप्रलीनैर्यनायुक्तैश्चानुयोगविधौ व्याख्यानवेलातां श्रुतस्य धारितोऽविस्मृतीकृतस्तेन ददति साम्प्रत मालीनादि पदानां व्याख्यानमाहभा.[४५१०] अल्लीणो नाणादिसु पदे पदे लीआ उ होंति पलीणा। कोहादी वा पलयं जेसि गया ते पलीणा उ॥ भा.[४५११] जयणाजुत्ता पयत्तवा दंतो जो उवरतो उ पावेहि। अहवा दंतो इंदिय दमेण नोइंदिएणं च । वृ. ज्ञानदिषु आ समन्तात् लीना आलीनाः पदे पदे लीना भवन्ति प्रलीयनाऽथवा येषां क्रोधादयः प्रलयं गतास्ते प्रलीनाः । प्रकर्षेण लीना लयं विनाशं गताः क्रोधादयो येषामिति व्युत्पत्तेः । यतनायुक्तो नाम सूत्रानुसारतः प्रयत्नवान् दान्तो यः पापेभ्य उपरतोऽथवा दान्तो नाम इन्द्रियदमेन नोइन्द्रियदमेन चान्यतः । तदेवं च्छेदश्रुतार्थधरणवशतो धारणाव्यवहार उक्तः। भा.[४५१२] अहवा जेणन्नइया दिट्ठा सोही परस्स कीरंति । तारिसयं चेव पुणो उप्पन्न कारणं तस्स ।। भा.[४५१३] सो तंमि चेव दव्वे खेत्ते काले य कारिणे पुरिसो । तारिसयं अकरेंतो न हु सो आराहतो होइ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046