Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 957
________________ ४७२ व्यवहार-छेदसूत्रम्-२- १०/२५१ भावशीतिस्तावद्रष्टव्यं । यावत्केवलज्ञानं, तत्र येषामनुयोगधराणामाचार्याणामेवं द्रव्ये भावे च शीतिरुपलब्धा भवति, ते न हु नैव ऊर्ध्वगमने कार्ये कर्तव्येऽधस्तनपदं प्रशंसन्ति । न तासु सपदगमनायाशुभव्यवसायप्रवृत्तिमातन्वते किंतु शुभेषु व्यवसायेप्वारोहन्ति । गतं सीतिद्वारं। भा. [४२३५] उक्कोसा य जहन्ना दुविहा संलेहणा समासेन। छम्मासा उ जहन्ना उक्कोसा बारससमा उ।। व.संलेखना समासेन द्विविधा प्रज्ञप्तास्तद्यथा-उत्कृष्टा जघन्या चशब्दात् मध्यमा च । तत्र जघन्या षण्मासा उत्कृष्टा द्वादशसमा द्वादशवर्षा। भा.[४२३६] चिट्ठउ जाव जहत्रा, उक्कोसं तत्थ ताव वोच्छामि । जंसंलहिउण मुनी साहंती अत्तणो अत्थं ।।। वृ. तत्र तयोर्जघन्योत्कृष्टयोर्मध्ये जघन्यतो वेति। अनुपश्चाद्वक्ष्यमाणत्वादुत्कृष्टं तावद्वक्ष्यामि यदित्यव्ययं यथा मुनय आत्मानं संलिख्यात्मनोऽर्थं साधयन्ति तामैवाहभा.[४२३७] चत्तारि विचित्ताई विगई निज्जूहियाइं चत्तारि। एगंतरमायामे नाति विगिच्छेय विगेहे ॥ व. चत्वारि वर्षाणि विचित्राणि विचित्रतपांसि करोति। किमक्तं भवति? चत्वारि वर्षाणि यावत्कदाचित् चतुर्थं कदाचित् षष्ठं कदाचिदष्टममेवं दश द्वादशादीन्यापि करोति, कृत्वा च पारणकं सर्वकामगुणितेनाहारेण पारयति ततः परमन्यानि चत्वारि वर्षाण्युक्तप्रकारेण विचित्रतपांसि करोति। विकृतिनिज्जूहितानि किमुक्तं भवति विचित्रं तपः कृत्वा पारणके निर्विकृतिकं भुंक्ते । उत्कृष्टरसवर्जं च ततः परतोऽन्ये द्वे वर्षे एकान्तरमायामं करोति । एकान्तरं चतुर्थं कृत्वा आयामेन पारयति। एवमेतानि दश वर्षाणि गतानि एकादशस्य वर्षस्यादेशान् नातिविकृष्टं तपः कृत्वा आयामेन परिमितं भुंक्ते, नातिविकृष्टं नाम तपश्चतुर्थं षष्ठं वावगन्तव्यम् । ततः परमन्यान् विकृष्टं तपः कृत्वा मा शीघ्रमेव मरणं यायासमिति कृत्वा पारणके परिपूर्णधाण्या आयामं करोति विकृष्टं नामाष्टमादिकं साम्प्रतमेतदेव व्याचिख्यासुराहभा.[४२३८] संवच्छराणि चउरो होति विचित्तं चउत्थमादीयं । काउण सव्वगुणियं पारेई उग्गमविसुद्धं ।। वृ.आदिमानी चत्वारि संवत्सराणि विचित्रं तप: चतुर्थादिकं भवति। तच्च कृत्वा पारयति भुक्ते सर्वगुणितं सर्वगुणितमाहारमुद्गमविशुद्धम्। भा. [४२३९] पुनरवि चउरन्ने उ विचित्तकाउण विगतिवज्जंतु । पारेइ सो महप्पा निद्धं पणियं च वज्जेइ॥ व. पुनरप्यन्यानि चत्वारि वर्षाणि विचित्रं तपः कृत्वा स महात्मा विकृतिवर्जे पारयति । तत्रापि स्निग्धं प्रणीतं चोत्कृष्टरसं वर्जयति। भा.[४२४०] अनातो दोनि समा चउत्थकाऊण पारेति । आयामं कज्जिएणं तु ततो अवक्कसम इमं कुणइ !! वृ. अन्यद्वे समे वर्षे चतुर्थं कृत्वा आयामं पारयति । एवं दश वर्षाणि गतानि । ततः परमन्यामेकां समां वर्षमिमां वक्ष्यमाणां काञ्जिकेनायामपारणकेन करोति, कथमित्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046