________________
उद्देशकः-१०, मूलं-२५१, [ भा. ४२२९]
४७१ - वृ. किं कारणं स्वगणादपक्रमणं क्रिया सूरिराह-स्थविराणामाचार्याणां संलेखनातपोभिः क्लान्तानामिह स्वगणे अभ्युद्यते भक्तपरिज्ञा लक्षणमरणे समुपस्थितानां शिष्याणां आचार्यानुरागेण रोदनक्रन्दनादीनि कुर्युः । रोदनादिकं च तेषामाका श्रुपातं दृष्ट्वा तेषामुपरिकारुण्यमुपजायते । ततो व्याधातः । अन्यच्च__भा. [४२३०] सगणे आणाहानी अप्पत्ति य होइ एवमादीयं ।
परगणगुरुकुलवासो अप्पत्ति य वज्झितो होई ।। वृ. यो गणधरः स्थापितस्तस्याज्ञां केचित् कुर्वन्ति तथा केषांचिदपकरणनिमित्तमप्रीतिरादिशब्दान् गणभेदो बालादीनामुचिताधकरणदर्शनमित्यादि परिग्रह: । तत एवं स्वगणे आज्ञाहारनिरप्रीतिरसेवनादिकं ध्यानव्याघातकारणमुपतिष्टते। ततः, परगणे गत्वा भक्तप्रत्याख्यानं प्रतिपद्यते । यत एवं गुरुकुलवास आसेवितो भवति । किं विशिष्ट इत्याह-प्रीतिवर्जितोऽप्रीतिश्च समस्तापि परिहता भवतीति भावः । अप्रीत्यादिकं यथा स्वगणे भवति तथा प्रदर्शयति । भा. [४२३१] उवगरणनिमित्तं तु वुग्गहं दिस्सवा विगणभेयं ।
बालादी थेराण व उचियाकरणमि वाघातो।। वृ.उपकरणनिमित्तं साधूनामाचार्ये कृतभक्तप्रत्याख्याने व्युद्ग्रहः कलहो भवति । अथवा तं गणधरं केचिन्न मन्यन्ते ततः स्वस्वपक्षे परिग्रहो गणभेदस्तत एवमुपकरणनिमित्तं गणभेदं दृष्टवा उपलभ्य तथा बालादीनां बालवृद्धासहग्लानादीनां स्थविराणां चात्र विकरणे उचितकरणादर्शनेऽप्रीतिरुपजायते । तथा चाप्रीत्या ध्यानव्याघातः । अयं च परगणे प्रतिपन्ने गुणः । भा.[४२३२] सिनेहो पेलवो होइ निग्गते उभयस्स उ।
आहच्च वावि वाधातो वा सेहादि विउब्भमो।। वृ.स्वगणानिर्गतोभयस्यापि गणस्याचार्यस्य वा स्नेह: परस्परं पेलवः प्रतनुर्भवति । अन्यच्च आहच्च-काचित् प्रथमपरीपहेनत्याजितस्य भक्तपरिज्ञां यो व्याघातेऽपि विलोप: स्यात्, तस्मिन् व्याघातेन स्वगणात् शैक्षकादीनां व्युद्ग्रहो जायते आघातपरिज्ञानाभावात्। अथवा विपरिणामोऽपि स्यात्, तथाहि स्वगुणे स्थितं भग्नपरिझं जानन्ति । ज्ञात्वा च सर्वां अपि प्रतिज्ञा एतेषामीदृशा एवेति विपरिणामं गत्वा संयम लोपयन्ति । सम्प्रति सोतिद्वारमाह-- भा.[४२३३] दव्वसिती भावसिती अनुयोगधराण जेसिमुवलद्धा।
नहु उड्मगमनकाट्ठा हेडिल्लपयं पसंसंति। भा.[४२३४] संजमट्ठाणेणं कंडगाणालसाविती विसेसाणं ।
उवरिल्लपयकमलं भावसिती केवलं जाव ॥ वृ.सितिनाम ऊर्ध्वमधो वा गच्छत: सुखोत्तरोवतारहेतुः पन्थाः । सा द्विधा-द्रव्ये भावे च। तत्र द्रव्येशितिनि:श्रेणिः सा द्विधा ऊर्ध्वगमने च तत्र अधोगमने च तत्र ययाधस्तनात् भूमिग्रहादि-- ष्ववतीर्यते साऽधो गमने, ययोज़परिमाणे आरुह्यते सा ऊर्ध्वगमने, भावशीतिरपि द्विधा प्रशस्ताऽप्रशस्ता च । तत्र यैहेतुभिस्तेषामेव संयमस्थानानां संयमकंडकानां लेश्यापरिणामविशेषाणां वा अधस्तात् संयमस्थानेष्वपि गच्छति, सा अप्रशस्ता भावशीतिः यैः पुनर्हेतुभिस्तेषामेव संयमादिस्थानानामुपरितनेषूपरितनेषु विशेषेष्वध्यारोहति, सा प्रशस्तोच्चोपरितन एव क्रमेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org