________________
४७०
व्यवहार-छेदसूत्रम्-२- १०/२५१ भा. [४२२४] . तं पुण अनुगंतव्यं दारेहिं इमेहिं आनुपुव्वीए।
गणनिसरणादिएंहि तेसि विभागं तु वुच्छामि ।। वृ. तेन पुननिर्व्याघातिरभिर्वक्ष्यमाणैर्गणान्निः सरणादिद्वारैरानुपुर्व्या क्रमेणानुगन्तव्यं तेषां च द्वाराणां विभागं वक्ष्यामि । तमेव वस्तुकाम आहभा.[४२२५] गण निसरणे परगणे सिति संलेह अगीय असंविग्गो ।
एगाभोगण अन्नने अनापुच्छपरिच्छ आलोए ।। भा.[४२२६] ट्ठाण वसहीए सत्थे निज्जवगा दव्व दायणा चरिमे।
हानी अपरियंतनिज्जर संथारुवत्तणादीनि ।। भा.[४२२७] सारेत्तणयकवयं निव्वाधाएण चिंधकरणं तु ।
अंतो बहि वाधातो भत्तपरित्राए कायव्वो॥ ७. गणात् स्वगणानिस्सरणा वक्तव्या परगणगमनं । तथा सितित्ति द्रव्यभावरूपानि: श्रेणिवक्तव्या। तथा संलेख संलेखना तथा अगीतस्य अगीतार्थस्य पार्वे न भक्तप्रत्याख्यातव्यं तथा असंविग्गेत्ति । असंविग्नस्यापि समीपे न प्रत्याख्यातव्यं । तथा एगत्ति एको निर्यापको न कर्तव्यः । किन्तु बहवः, परतो वा भक्तं प्रत्याख्यातुकामस्य विषये आभोगनं कर्तव्यम् । तथा अन्यो यदि भक्तं प्रत्याख्यातुमुद्यतस्तहि यदि निर्यापका: पूर्यन्ते तदास प्रतिष्यते, शेषकालं नेति, तथा आचार्येण गच्छस्यानापृच्छया स भक्तप्रत्याख्यानं न प्रतिपादयितव्यः । तथा तेन भक्तं प्रत्याख्यातुकामेन गच्छस्य गच्छेनापि तस्य परीक्षा कर्तव्या। तथा भक्तपरिज्ञा प्रतिपत्तुकामेन नियत आलोचना दातव्या। तथा प्रशस्ते स्थाने प्रशस्तायां वसतौ भक्तपरिज्ञा प्रतिपत्तव्याः । तथा निर्यापका गुणसम्पन्नाः समर्पणीयाः। तथा आलोचना चरमकाले तस्य भक्तप्रत्याख्यातुकामस्य द्रव्यदर्शनं प्रधानसमस्ताहारद्रव्योपदर्शनं विधेयं । हाणित्ति भक्तं प्रत्याख्यातुकामस्य प्रतिदिवसमाहारस्यानिविधेया तथा अपरिश्रान्ताः सर्वकर्मणि प्रतिचारका वर्तन्ते । निज्जरति निर्जरा वक्तव्या तथा संस्तारको यादृशो भवति कृतभक्तप्रत्याख्यानस्यहाकर्तव्यस्तादृशो वक्ष्यते । तथा तस्य कृतभक्तप्रत्याख्यानस्योद्वर्तनादीनि यथा समाधिकरणीयानि तथा प्रथमद्वितीयपरीषहाभ्यां त्याजितः स्मारयित्वा स्वं स्वरूपं (मा)नर्थत्वादिलक्षणं कवचं कवचभूतमशनं प्रयोक्तव्यम् । तथा जीवतो मृतस्य च तस्य चिन्हकरणं विधेयं, एतं निर्व्याधाते भक्तपरिज्ञाव्याघाताभावेन प्रतिपत्तव्यं । अथान्तामादिबहिरुद्यानादिपु भक्तपरिज्ञाया व्याघात: संजातस्ततोगीतार्थानामुपायो भवति कर्तव्यः । एष द्वारगाथा । साम्प्रतमेतदेव विवरीषुराहभा.[४२२८] गणनिसरणंमि उ विही जो कप्पे वपिणतो समासेणं ।
सो चेव निरवसेसो भत्तपरिन्नाए दसमंमि ॥ व. गणनिस्सरणे यो विधिः कल्पे कल्पाध्ययने सप्तविधः सप्तप्रकारो वणितः स एव व्यवहारो दशमे उद्देशके भक्तपरिज्ञायां भक्तज्ञानाधिकारो निरवशेषो वक्तव्यः । गणनिस्सरणं द्वारं गतमिदानी परगणद्वारं परगणे गत्वा भक्तप्रत्याख्यानं कर्तव्यम्। भा.[४२२९] किं कारणं चंकमणं थेराण इहं तवो किलंताणं ।
अब्भुज्जयंमि मरणे कालुणियाज्झाणवाधातो।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org