________________
उद्देशकः-१०, मूलं-२५१, [ भा. ४२१७ ]
४६९ वृ.श्रृणु यथा निर्यापकैनिर्याप्पमाना दृश्यते निर्यापकैनिर्याप्यमाना इह द्विविधा निर्यापकास्तद्यथा-आत्मनः परस्य च उभयानप्याहभा. [४२१८] पातोवगमे इंगिनि दुविहा खलु होति आयनिज्जवगा।
निज्जवगा उ परेण उ भत्तपरिन्ना य बोधव्या ॥ वृ. आत्मनिर्यापकाः खलु द्विविधा भवन्ति तद्यथा-पादपोपगमे इंगिनीमरणे च परेण पुनर्निर्यापना भक्तपरिज्ञायां बोद्धव्या। - भा. [४२१९] पाउवगमइंगिनि दोन्नि विचिटुं तु भावमरणाई ।
भत्तपरिणाए विहिं वुच्छामि अहानुपुवीए ।। वृ. पादपस्योपगमो यस्य तत् पादफेपगम इङ्गिनीमरणं च द्वे अपि तावन्मरणे तिष्ठतः पश्चात् वक्ष्यमाणत्वात् सम्प्रति भक्तपरिज्ञायाविधिमानुपूर्व्या वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयतिभा.[४२२०] पव्वज्जादीकाउं नेयव्वं ताव जा आवोच्छित्ती।
पंच तुलेउणप्पा सा भत्तपरिण्णं परिणतो उ॥ वृ. प्रव्रज्यामादिं कृत्वा तावत्रोतव्यं यावदव्यवच्छित्ति किमुक्तं भवति? प्रथमतः प्रव्रज्या तदनन्तरं ग्रहणासेवनरूपां शिक्षा, ततः परं पञ्चमहाव्रतानि तदनन्तरमर्थग्रहणं ततोऽनियतो वासस्ततः परिपूर्णां गच्छस्य निष्पत्तिं कृत्वा तदनन्तरं तवेण सत्तेणसुत्तेण बलेण य । इत्येवं रूपाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा भक्तपरिज्ञा प्रति परिणतो भवति । भा. [४२२१] सपरक्कमे य अपरकम्मे य वाधाए आनुपुव्वीए।
सत्तत्थजाणएण समाहिमरणं तु कायव्वं ।।। वृ. भक्तपरिज्ञारूपं नाममरणं द्विधा सपराक्रममपराक्रमं च। तत्र सपराक्रमं द्विविधं व्याघातिमं निर्व्याघातं च। तत्र सपराक्रमे एकैकस्मिन् व्याघाते कर्मणि धञ प्रत्ययानयनात् व्याघातिमे चशब्दानियाघाते च समुपस्थिते सूत्रार्थज्ञापकेन समाधिमरणं कर्तव्यं । एतदेव व्याचष्टेभा. [४२२२] भिक्खवियारसमत्थो जो अन्नगणं च गंतु वाएइ ।
एस सपरक्कमो खलु तव्विवरीतो भवे इयरो ।। वृ. यः स्वस्य परस्य च निमित्तं भिक्षायां विचारे च गन्तुं समर्थो यदि वान्यगणं गत्वा वाचयति सभक्तप्रत्याख्यानं प्रतिपित्सुः पराक्रमस्तद्विपरीतो भिक्षादावसमर्थो भवति इतराऽपराक्रमस्तद्गतं मरणमपि यथाक्रमं सपराक्रममपराक्रमं च । भा.[४२२३] एक्ककं तु दुविहं निव्वाधायं तहेव वाघायं ।
वाघातो वि य दुविहो कालतियरो इयरो वा ।। वृ. तत्सपराक्रमगपराक्रमं च मरणमेकैकं द्विविधं निर्व्याघातं व्याघातं च । तत्र व्याघातो नाम यथा अच्छभल्लेन कालादौ ? (ओ?) ष्टौ च खादितौ, अथवा रोमे व्याघातः ततो मरणं प्रतिप्रद्यते । निर्व्याघातं यथोक्तव्याघातरहितं । व्याघातोऽपि च द्विविध: कालातिचार इतरश्च। कालमतिचरति अतिक्रामतीति कालातिचारः कालसहो। यतश्चिरेण मरणं यथा पूतिगोनशेन दृष्टस्य तं दृष्टकालमतीत्यविंशति रात्रिंदिवादिषु मरणं, इतर: कालानतिचारो यत्तद्दिवसमेव मर्तुकामो भक्तं प्रत्याचष्टे इति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org