Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 951
________________ व्यवहार - छेदसूत्रम् - २ - १० / २५१ निरवेक्खो जइ तेसिं देति ततो ते विनस्संति ॥ वृ. ये पुनर्धृतिसंहननाभ्यां होनास्ते असद्विभवैस्तुल्यास्तेषां यदि निरपेक्षः सन् यन्निरवशेषं प्रायश्चित्तं ददाति ततस्ते विनश्यति । तथाहि तत्प्रायश्चित्तं निरवशेषं वोढुमशक्नुवन्तस्तपसा कृशीकृता जीवितादपगच्छेयुः । भा. [ ४२०० ] ते तेन परिच्चत्ता लिंगविवेगं तु काउ वच्चति । तित्दो अप्पा गाणि य तेण चत्तो य ॥ वृ. यदि वा ते प्रायश्चित्तभग्ना लिङ्गविवेकं कृत्वा व्रजन्ति ततस्तन निरवशेषप्रायश्चित्तदात्रा परित्यक्ता यथैवमेके एवमन्येऽप्येवमपरेपि ततः सर्वसाधुव्यपगमतस्तीर्थस्योच्छेदस्तथा तेनाचार्येण निरवशेषंअ प्रायश्चित्तं साधूनां ददता प्रायश्चित्तभग्नभयात् साधूनामपगमत आत्मा एकाकीकृत : एकाकितया च त्यक्तश्च शब्दात् गच्छोऽपि त्यक्तस्तथाहि साधूनामपगमे बालवृद्धग्लानादीनामुपग्रहेन कोऽपि वर्तते । ततस्तेऽपि तेन तत्त्वतः परित्यक्तास्तथा अवधाविताः सन्तो ये दीर्घकालं संसारमादि (वि) हिण्डिष्यंते सोऽपि तत्रिमित्त इति तस्य महत्पापं तदेव निरपेक्षस्य दोष उक्तः । सम्प्रति सापेक्षस्य गुणमाह भा. [४२०१] ४६६ सावेक्खो पवयणम्मी अनवत्थपसंगवारणाकुसलो । चारित्तरक्खणत्थं आवोउित्ती पउवि सज्झे ॥ वू. यः पुनराचार्य: प्रवचने सापेक्षोऽनवस्थाप्रसङ्गवारणाकुशलः स चारित्रस्य रक्षार्थं भवति तीर्थस्य चाव्यवच्छेदस्तथोपायेन साधयतीत्यर्थः उपायमेवाह भा. [४२०२] कलाणगमावत्रे अतरंते जहवकमेण काउं जो । दसकारेंति चउत्थे तद्दिगुणायंबिलतते वा ।। भा. [४२०३] एक्कासणए पुरिमड्ढा निविगती चैव विगुणविगुणा र । पत्तेयासहुवा करेइ वा सन्निगासं तु ॥ वृ. पञ्च अभक्तार्थाः पञ्च आचाम्लानि पञ्च एकाशनकानि पञ्चपूर्वार्धानि पञ्च निर्विकृतिकानि एतत् पञ्चकल्याणं तत् जयेष्ठापन्ना यथाक्रमेण च कर्तुमशक्नुवन्तस्तान् दश चतुर्थान् कारयन्ति तथाप्यशक्नुवस्तद्विगुणाचाम्लवान् तपः कारयति विंशतिमायामाम्लानि कारयन्तीत्यर्थः । एव काश पूर्वार्ध निर्विकृतीर्द्विगुणाः कारयन्ति । किमुक्तं भवति ? विंशत्यायामाम्ले कारणाशकेतौ अशीति पूर्वार्द्धीनि कारयन्ति । तत्राप्यशक्तौ षष्ठिशतं निर्विकृतिकानां कारयन्ति । एतत् पञ्चसु कल्याणेष्वेकैकं कल्याणं प्रत्येकमव्यवच्छित्त्य कर्तुमर्हस्यासमर्थस्य दातुमुक्तमथवायमन्यो विकल्प: करिति व सन्निगासं तु । सन्निकाशं सन्निभं वा कारयति । इयमत्र भावना-यत्तत्पञ्चकल्याणमापन्नस्तन्यमध्यादाद्यं द्वितीयं तृतीयं वा कल्याणकमेकतरं यथाक्रमेण वहति शेषमायाम्लादिभिः प्रदर्शयति । पुनरन्यथानुग्रहप्रकारमाह भा. [ ४२०४] Jain Education International उति दुगकलाणं एगकल्लाणगं च कारेती । जं जो उत्तरति तं तस्स देंति असहुस्स भाति ॥ वृ. यदि वा पञ्चकल्याणक मुक्तस्वरूपं यथाक्रमेण व्यवच्छित्त्या कर्तुमशक्नुवन्तं चतुः - कल्याणकं कारयति। तदप्यशक्नुवन्तं त्रिकल्याणकं यथाप्यसमर्थतया द्विकल्याणकं कारयति, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046