Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text ________________
अध्यात्मोपनिषत्प्रकरणम्
यदि च यथास्थितासत्तितः कथञ्चिदपि निर्वचने सम्भवत्यासत्त्यन्तरकल्पनमनुचितमित्याग्रहः, तदा मैत्र्यादिवासितं चित्तमित्युक्त्यैव बाह्यव्यवहारोपबृंहणमागतमेव । नहि बाह्याभावे तद्व्यवहाराभावे च मैत्र्यादिभावना आत्मानमासादयन्ति; यतश्चित्तव्यतिरिक्तं किञ्चिद् वस्तु न स्यात्, कुत्र मैत्र्यादि भाव्येत? चित्तमलस्य तु चित्तविक्षेपादेर्बाह्याभावेऽपि वासनाद्यान्तरदोषमात्रेण सम्भवितया, तद्राहित्यरूपनिर्मलत्वस्याऽपि दोषापगमतस्सम्भवेन, तादृशस्याऽध्यात्मस्य भक्ष्याभक्ष्य-पेयापेय-गम्यागम्यादि-बाह्यव्यवहारोन्मूलंकत्वेन न सन्नयभूतर्जुसूत्रसम्मतत्वम्, किन्तु ऋजुसूत्रनिर्गतनयाभासकल्पितत्वमेवेत्यावेदनायाऽतिनिर्मलचित्तस्य सूत्रसम्मतस्य बाह्यव्यवहारोपबृंहितत्वविशेषणं युक्तमेवेति ।
अथवा यथाश्रुतासत्तिसमाश्रयणे निर्मलमित्यत्र विशेष्यतया चित्तं न समन्वियात्, मैत्र्यादिवासितमित्यादिना व्यवहितत्वात् । किन्तु तथाश्रयणे अध्यात्ममिति लक्ष्यनिर्देशः, मैत्र्यादिवासितं चित्तमिति लक्ष्यपदरूढ्यर्थस्वरूपं लक्षणम् । तच्च लक्षणं निर्मलं दोषरूपमलविकलं यतः बाह्यव्यवहारोपबृंहितमिति तदेकमेव रूढ्यर्थस्वरूपं यथायथं विशेषणांश-विशेष्यांशभागसमाश्रयणेन व्यवहारर्जुसूत्रयोर्नययोर्मिलितयो यो द्वितीयोऽर्थ इत्येवं चतुर्थश्लोकोत्तरार्धं व्याख्यानतः सङ्गमनीयम् । अत एव चाऽर्थस्य द्वितीयत्वविशेषणं सङ्गतिमङ्गति । अन्यथा अध्यात्मपदस्यैको योगार्थः प्रथममुपदर्शितः, रूढ्यर्थों च द्वौ व्यवहारर्जुसूत्रसमाश्रिताविति त्रयोऽर्थाः स्युरिति तृतीयश्लोकप्रतिपाद्ययोरर्थयोरेकीकृत्य द्वितीयत्वाभिधानं रूढ्यर्थत्वैकोपाधितो लाक्षणिकं स्यादिति विचारणीयं सुधीभिः ॥१.३-४||
रागद्वेषराहित्येन सद्युक्तिसमाश्रयणत: पक्षपातरहितस्यौदासीन्यं भजतो मध्यस्थस्य स्याद्वादप्रमाणराजपरिकर्मितमतेः स्याद्वादिन एव यौगिकार्थ-रूढ्यर्थभेदसन्दर्शिताध्यात्मस्वरूपावधानकुशलत्वेनाऽध्यात्मस्वामित्वं, नाऽन्यस्य वादिन इत्युपदर्शनायाऽऽह -
गलन्नयकृतभ्रान्ति-र्यः स्याद् विश्रान्तिसम्मुखः ।
स्याद्वादविशदालोकः, स एवाऽध्यात्मभाजनम् ॥१.५॥ अत्र नयपदेन नयाभास एव विवक्षितः । सुनयस्य तु प्रमाणोपदर्शितवस्त्वंशविषयकत्वेन तज्जनितज्ञानस्य यथा न प्रमात्वं तथाऽप्रमात्वमपि नैव । यतोऽवस्तुविषयकस्यैव ज्ञानस्य भ्रान्तित्वम् । नयविषयस्य वस्त्वंशस्य नाऽवस्तुत्वम्,
"नाऽयं वस्तु, ना चाऽवस्तु, वस्त्वंश: कथ्यते बुधैः ।
नाऽसमुद्रः समुद्रो वा, समुद्रांशो यथैव हि ॥" [ ] इति वचनात् । तथा च स्याद्वादविशदालोकस्य स्याद्वादिनः स्याद्वादसंस्कृतनयोपनीताध्यात्मपरिशीलनेऽपि न नयकृतभ्रान्त्यवसरः ।
अतिमूढस्याऽध्यात्मा-ऽनध्यात्मकथाबहिष्कृतस्याऽपि नयकृतभ्रान्तिरहितत्वं स्वरूपतः समस्ति, न त्वध्यात्मभाजत्वमित्यत उक्तं विश्रान्तिसम्मुख इति । अत्र विश्रान्तिपदेन भवभ्रमणविरामः चिदानन्दस्वरूपे स्वात्मन्यवस्थानलक्षणो मोक्षो वाऽभिप्रेतः । तत्सम्मुखत्वं च यथाशक्ति तदुपायभूतज्ञानदर्शनचारित्रादिसमाचरणम् ।
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118