Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ ४६ अध्यात्मोपनिषत्प्रकरणम् प्रारब्धादृष्टजनिा, सामयिकविवेकतः । क्रियाऽपि ज्ञानिनो व्यक्ता-मौचितीं नाऽतिवर्त्तते ॥२.३४॥ सामयिकविवेकत इति । अयं सामायिककाल इदानीं सामायिकक्रिया विधेया । अयं चोपदेशकालोऽत्र उपदेशो विधेयः । एवमन्यास्वपि क्रियासु नियतसमयप्रभवासु यथासम्भवमुपयुज्य कालसम्बद्धप्रवृत्तिविवेक इत्येवं सामयिकविवेकत इत्यर्थः । क्रियाऽपि- जायमाना क्रियाऽपि तत्तन्नित्यनैमित्तिकाचरणमयी, ज्ञानिनः- प्रकृतज्ञानवतः, व्यक्तांस्पष्टाम्, औचितीम्- उचितत्वं, नाऽतिवर्तते- नाऽतिक्रामतीत्यर्थः ॥२.३४॥ ननु ज्ञानिनो रागद्वेषराहित्येऽपि विषयाणां स्वसम्बद्धाभिभावकत्वस्वाभाव्यात् तैस्तस्याऽभिभव: स्यादेवेत्यत आह - संसारे निवसन् स्वार्थ-सज्जः कज्जलवेश्मनि । लिप्यते निखिलो लोको, ज्ञानसिद्धो न लिप्यते ॥२.३५॥ स्वार्थसज्जः- स्वेष्टसम्पादनपरायणो निखिलो- ज्ञानिव्यतिरिक्तः समग्रोऽपि लोकः- जनः, कज्जलवेश्मनि- कामक्रोधलोभमोहा एव आत्ममनोमलीमसतास्वरूपापादकत्वात् कज्जलानि, तेषां निरामयावासस्थानत्वाद् वेश्मेव वेश्म । तस्मिन् संसारे निवसन्, लिप्यते- कामक्रोधलोभमोहैरभिभूयते । ज्ञानसिद्धस्तु योगी न स्वार्थसज्ज इत्यरक्तद्विष्टस्वभावो न केनाऽपि स्वस्वभावतः प्रच्यावयितुं शक्य इत्युक्तसंसारे निवसन्नपि न लिप्यते- न तैरभिभूयते । मूलत एव तत्र तेषामुच्छेदात् ॥२.३५॥ ज्ञानिनो लिप्तत्वाभावे कर्तृत्व-कारयितृत्वा-ऽनुमन्तृत्वाद्यन्यतमाभाववत्तयाऽऽत्मज्ञानवत्त्वमेव प्रयोजकमित्याह - नाऽहं पुद्गलभावानां, कर्ता कारयिता च न । नाऽनुमन्ताऽपि चेत्यात्म-ज्ञानवान् लिप्यते कथम्? ॥२.३६॥ अहं- पुद्गलव्यतिरिक्ततया प्रतिभासमानमूर्तिरात्मा । पूरणगलनस्वभावतया पुद्गलभावानां साक्षात् परम्परया वा पुद्गलविवर्तभूतानां स्रक्चन्दनकामिन्यादिसम्बन्धप्रभावितानां भोगानां तद्विषयाणां कामादीनां तदुपघातोल्लसितानल्पकुकल्पनासमुत्थविकाराणां च परोपाधिसमुद्भूततया विजातीयतया च स्वतः कर्ता न, परद्वारा कारयिता न, परेणैव तदुपादाने तदुपष्टम्भकवचनाडुपन्यासेन तदप्रतिषेधकत्वेन वाऽनुमन्ताऽपि न, इत्येवमात्मज्ञानवान् पुरुषः कथं लिप्यते ? नैव लिप्यते इत्यर्थः ॥२.३६॥ "पुद्गलस्यैव पुद्गलविशेषसम्बन्धविशेषलक्षणो लेपो नाऽपुद्गलस्याऽऽत्मनः । अञ्जनेन चित्रव्यवस्थितपुद्गलाकारविशेषस्यैव श्यामीकरणं, न तु तत्राऽभिव्याप्याऽवस्थितस्याऽपि व्योम्न" इत्थं ध्यायतोऽपि ज्ञानिनो न लेपसम्भव इत्याह - १. पूर्वकृतकर्मविपाकफलभूतेत्यर्थः । २. वृत्त्यन्तरेऽत्र "सामायिकविवेकतः" इति पाठो दृश्यते । अर्थोऽपि तदनुरूप एव तत्र दर्शित: - लोकविरुद्धत्याग-शासनापभ्राजनानिवृत्त्यनुकूलपरिणामानुविद्धचारित्रनिर्वाहकाचारसम्बन्धिविवेकशक्तित इति ।

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118