Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text ________________
अध्यात्मोपनिषत्प्रकरणम्
सम्प्राप्तकेवलज्ञाना, अपि यज्जिनपुङ्गवाः । क्रियां योगनिरोधाख्यां, कृत्वा सिद्धयन्ति नाऽन्यथा ॥३.३७॥ तेन ये क्रियया मुक्ता, ज्ञानमात्राभिमानिनः । ते भ्रष्टा ज्ञान-कर्मभ्यां, नास्तिका नाऽत्र संशयः ॥३.३८॥ ज्ञानोत्पत्तिं समुद्भाव्य, कामादीनन्यदृष्टितः । अपहनुवानैर्लोकेभ्यो, नास्तिकैर्वञ्चितं जगत् ॥३.३९॥ ज्ञानस्य परिपाकाद्धि, क्रियाऽसङ्गत्वमङ्गति । न तु प्रयाति पार्थक्यं, चन्दनादिव सौरभम् ॥३.४०॥ प्रीति-भक्ति-वचो-ऽसङ्गै-रनुष्ठानं चतुर्विधम् । यत् परैर्योगिभिर्गीतं, तदित्थं युज्यतेऽखिलम् ॥३.४१॥ ज्ञाने चैव क्रियायां च, युगपद्विहितादरः । द्रव्यभावविशुद्धः सन्, प्रयात्येव परं पदम् ॥३.४२॥ . क्रियाज्ञानसंयोगविश्रान्तचित्ताः, समुद्भूतनिर्बाधचारित्रवृत्ताः । नयोन्मेषनिर्णीतनिःशेषभावा-स्तपःशक्तिलब्धप्रसिद्धप्रभावाः ॥३.४३॥ भयक्रोधमायामदाज्ञाननिद्रा-प्रमादोज्झिताः शुद्धमुद्रा मुनीन्द्राः । यशःश्रीसमालिङ्गिता वादिदन्ति-स्मयोच्छेदहर्यक्षतुल्या जयन्ति ॥३.४४॥
साम्ययोगशुद्धिनामाऽधिकारः ज्ञानक्रियाश्वद्वययुक्तसाम्य-रथाधिरूढः शिवमार्गगामी । न ग्रामपू:कण्टकजारतीनां, जनोऽनुपानत्क इवाऽतिमेति ॥ ४.१ ।। आत्मप्रवृत्तावतिजागरूकः, परप्रवृत्तौ बधिरान्धमूकः । सदा चिदानन्दपदोपयोगी, लोकोत्तरं साम्यमुपैति योगी ॥ ४.२ ॥' परीषहैश्च प्रबलोपसर्ग-योगाच्चलत्येव न साम्ययुक्तः । स्थैर्याद् विपर्यासमुपैति जातु, क्षमा न शैलैर्न च सिन्धुनाथैः ॥ ४.३ ॥ इतस्ततो नाऽरतिवह्नियोगा-दुड्डीय गच्छेद् यदि चित्तसूतः ।। साम्यैकसिद्धौषधमूर्छितः सन्, कल्याणसिद्धेर्न तदा विलम्बः ॥ ४.४ ॥. अन्तर्निमग्नः समतासुखाब्धौ, बाह्ये सुखे नो रतिमेति योगी । अटत्यटव्यां क इवाऽर्थलुब्धो, गृहे समुत्सर्पति कल्पवृक्षे? ॥ ४.५ ॥ . यस्मिन्नविद्यार्पितबाह्यवस्तु-विस्तारजभ्रान्तिरुपैति शान्तिम् । तस्मिंश्चिदेकार्णवनिस्तरङ्ग-स्वभावसाम्ये रमते सुबुद्धिः ॥ ४.६ ॥ शुद्धात्मतत्त्वप्रगुणा विमर्शाः, स्पर्शाख्यसंवेदनमादधानाः । यदाऽन्यबुद्धि विनिवर्तयन्ति, तदा समत्वं प्रथतेऽवशिष्टम् ॥ ४.७ ॥ विना समत्वं प्रसरन्ममत्वं, सामायिकं मायिकमेव मन्ये । आये समानां सति सद्गुणानां, शुद्धं हि तच्छुद्धनया विदन्ति ॥ ४.८ ॥ निशानभोमन्दिररत्नदीप्र-ज्योतिर्भिरद्योतितपूर्वमन्तः । विद्योतते तत् परमात्मतत्त्वं, प्रसृत्वरे साम्यमणिप्रकाशे ॥ ४.९ ॥ एकां विवेकाङ्कुरितां श्रिता यां, निर्वाणमापुर्भरतादिभूपाः । सैवर्जुमार्गः समता मुनीना-मन्यस्तु तस्या निखिलः प्रपञ्चः ॥ ४.१० ॥
Loading... Page Navigation 1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118