Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 101
________________ अध्यात्मोपनिषत्प्रकरणम् सत्त्वचित्त्वादिधर्माणां, भेदाभेदविचारणे । न चाऽर्थोऽयं विशीर्येत, निर्विकल्पप्रसिद्धितः ॥२.४४॥ योगजानुभवारूढे, सन्मात्रे निर्विकल्पके । विकल्पौधासहिष्णुत्वं, भूषणं न तु दूषणम् ॥२.४५॥ यो ह्याख्यातुमशक्योऽपि, प्रत्याख्यातुं न शक्यते । प्राज्ञैर्न दूषणीयोऽर्थः, स माधुर्यविशेषवत् ॥२.४६॥ कुमारी न यथा वेत्ति, सुखं दयितभोगजम् । न जानाति तथा लोको, योगिनां ज्ञानजं सुखम् ॥२.४७॥ अत्यन्तपक्वबोधाय, समाधिर्निर्विकल्पकः । वाच्योऽयं नाऽर्धविज्ञस्य, तथा चोक्तं परैरपि ॥२.४८॥ . "आदौ शमदमप्रायै-र्गुणैः शिष्यं प्रबोधयेत् । पश्चात् 'सर्वमिदं ब्रह्म, शुद्धस्त्वमिति बोधयेत् ॥२.४९।। अज्ञस्याऽर्धप्रबुद्धस्य, 'सर्वं ब्रह्मेति यो वदेत् । महानरकजालेषु, स तेन विनियोजितः" ॥२.५०॥ तेनाऽऽदौ शोधयेच्चित्तं, सद्विकल्पैतादिभिः । यत् कामादिविकाराणां, प्रतिसङ्ख्याननाश्यता ॥२.५१॥ विकल्परूपा मायेयं, विकल्पेनैव नाश्यते । अवस्थान्तरभेदेन, तथा चोक्तं परैरपि ॥२.५२॥ "अविद्ययैवोत्तमया, स्वात्मनाशोद्यमोत्थया । विद्या सम्प्राप्यते राम!. सर्वदोषापहारिणी ॥२.५३॥ शाम्यति शस्त्रमस्त्रेण, मलेन क्षाल्यते मलः । शमं विषं विषेणैति, रिपुणा हन्यते रिपुः ॥२.५४॥ ईदृशी भूतमायेयं, या स्वनाशेन हर्षदा । न लक्ष्यते स्वभावोऽस्याः, प्रेक्ष्यमाणैव नश्यति" ॥२.५५॥ व्रतादिः शुभसङ्कल्पो, निर्माश्याऽशभवासनाम् । दाह्यं विनैव दहनः, स्वयमेव विनक्ष्यति ॥२.५६॥ इयं नैश्चयिकी शक्ति-न प्रवृत्तिर्न वा क्रिया । शभसङ्कल्पनाशार्थ, योगिनामपयज्यते ॥२.५७॥ द्वितीयापूर्वकरणे, क्षायोपशमिका गुणाः । क्षमाद्या अपि यास्यन्ति, स्थास्यन्ति क्षायिकाः परम् ॥२.५८॥ इत्थं यथाबलमनद्यममद्यमं च, कर्वन दशानगणमत्तममान्तरार्थे । चिन्मात्रनिर्भरनिवेशितपक्षपातः, प्रातर्धरत्नमिव दीप्तिमपैति योगी ॥२.५९॥ अभ्यस्यत प्रविततं व्यवहारमार्ग, प्रज्ञापनीय इह सदगरुवाक्यनिष्ठः ।। चिद्दर्पणप्रतिफलत्रिजगद्विवर्ते, वर्तेत किं पुनरसौ सहजात्मरूपे ॥२.६०॥ .. भवतु किमपि तत्त्वं बाह्यमाभ्यन्तरं वा, हृदि वितरति साम्यं निर्मलश्चिद्विचारः । . तदिह निचितपञ्चाचारसञ्चारचारु-स्फरितपरमभावे पक्षपातोऽधिको नः ॥२.६२।। स्फुटमपरमभावे नैगमस्तारतम्यं, प्रवदतु न तु हृष्येत् तावता ज्ञानयोगी । कलितपरमभावं चिच्चमत्कारसारं, सकलनयविशुद्धं चित्तमेकं प्रमाणम् ॥२.६२॥ हरिरपरनयानां गर्जितैः कञ्जराणां, सहजविपिनसप्तो निश्चयो नो बिभेति । अपि तु भवति लीलोज्जृम्भिजृम्भोन्मुखेऽस्मिन्, गलितमदभरास्ते नोच्छ्वसन्त्येव भीताः ॥२.६३॥ कलितविविधबाह्यव्यापिकोलाहलौघ-व्यपरमपरमार्थे भावनापावनानाम । क्वचन किमपि शोच्यं नाऽस्ति नैवाऽस्ति मोच्यं, न च किमपि विधेयं नैव गेयं न देयम् ॥२.६४॥ इति सुपरिणताऽऽत्मख्यातिचातुर्यकेलि-र्भवति यतिपतिर्यश्चिद्भरोद्भासिवीर्यः । हर-हिमकर-हार-स्फारमन्दार-गङ्गा-रजतकलशशुभ्रा स्यात् तदीया यशःश्रीः ॥२.६५॥ ३ क्रियायोगशुद्धिनामाऽधिकारः यान्येव साधनान्यादौ, गृह्णीयाज्ज्ञानसाधकः । सिद्धयोगस्य तान्येव, लक्षणानि स्वभावतः ॥३.१॥ अत एव जगौ यात्रां, सत्तपोनियमादिषु । यतनां सोमिलप्रश्ने, भगवान् स्वस्य निश्चिताम् ॥३.२॥

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118