Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text ________________
अध्यात्मोपनिषत्प्रकरणम् मनोवाक्काययोगानां, भेदादेवं क्रियाभिदा । समग्रैव विशीर्येते-त्येतदन्यत्र चर्चितम् ॥१.५९॥ नित्यानित्याद्यनेकान्त-शास्त्रं तस्माद् विशिष्यते । तद्दृष्टयैव हि माध्यस्थ्यं, गरिष्ठमुपपद्यते ॥१.६०॥ यस्य सर्वेषु समता, नयेषु तनयेष्विव । तस्याऽनेकान्तवादस्य, क्व न्यूनाधिकशेमुषी? ॥१.६१॥ स्वतन्त्रास्तु नयास्तस्य, नांऽशाः किन्तु प्रकल्पिताः । रागद्वेषौ कथं तस्य, दूषणेऽपिं च भूषणे ॥१.६२॥ अर्थे महेन्द्रजालस्य, दूषितेऽपि च भूषिते । यथा जनानां माध्यस्थ्यं, दुर्नयार्थे तथा मुनेः ॥१.६३॥ ... दूषयेदज्ञ एवोच्चैः, स्याद्वादं न तु पण्डितः । अज्ञप्रलापे सुज्ञानां, न द्वेषः करुणैव तु ॥१.६४॥ त्रिविधं ज्ञानमाख्यातं, श्रुतं चिन्ता च भावना । आद्यं कोष्ठगबीजाभं, वाक्यार्थविषयं मतम् ॥१.६५॥ महावाक्यार्थजं यत्तु, सूक्ष्मयुक्तिशतान्वितम् । तद् द्वितीयं जले तैल-बिन्दुरीत्या प्रसृत्वरम् ॥१.६६॥ . ऐदम्पर्यगतं यच्च, विध्यादौ यत्लवच्च यत् । तृतीयं तदशुद्धोच्च-जात्यरत्नविभानिभम् ॥१.६७॥ आद्ये ज्ञाने मनाक् पुंस-स्तद्रागाद् दर्शनग्रहः । द्वितीये न भवत्येष, चिन्तायोगात् कदाचन ॥१.६८॥ चारिसञ्जीविनीचार-कारकज्ञाततोऽन्तिमे । सर्वत्रैव हिता वृत्ति-र्गाम्भीर्यात् तत्त्वदर्शिनः ॥१.६९॥ तेन स्याद्वादमालम्ब्य, सर्वदर्शनतुल्यताम् । मोक्षोद्देशाविशेषेण, यः पश्यति स शास्त्रवित् ॥१.७०।। माध्यस्थ्यमेव शास्त्रार्थो, येन तच्चारु सिध्यति । स एव धर्मवादः स्या-दन्यद् बालिशवल्गनम् ॥१.७१॥ पुत्रदारादि संसारो, धनिनां मूढचेतसाम् । पण्डितानां तु संसारः, शास्त्रमध्यात्मवर्जितम् ॥१.७२॥ माध्यस्थ्यसहितं ह्येक-पदज्ञानमपि प्रमा । शास्त्रकोटिर्वथैवाऽन्या, तथा चोक्तं महात्मना ॥१.७३॥ "वादांश्च प्रतिवादांश्च, वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ" ॥१.७४॥ इति यतिवदनात् पदानि बुद्ध्वा, प्रशम-विवेचन-संवराभिधानि । प्रदलितरितः क्षणाच्चिलाति-तनय इह त्रिदशालयं जगाम ॥१.७५॥ न चाऽनेकान्तार्थावगमरहितस्याऽस्य फलितं, कथं माध्यस्थ्येन स्फुटमिति विधेयं भ्रमपदम् । समाधेरव्यक्ताद् यदभिदधति व्यक्तसदृशं, फलं योगाचार्या ध्रुवमभिनिवेशे विगलिते ॥१.७६॥ विशेषादोघाद् वा सपदि तदनेकान्तसमये, समुन्मीलद्भक्तिर्भवति य इहाऽध्यात्मविशदः । भृशं धीरोदात्तप्रियतमगुणोज्जागररुचि-र्यशःश्रीस्तस्याऽकं त्यजति न कदाऽपि प्रणयिनी ॥१.७७॥
ज्ञानयोगशुद्धिनामाऽधिकारः दिशा दर्शितया शास्त्रै-गच्छन्नच्छमतिः पथि । ज्ञानयोगं प्रयुञ्जीत, तद्विशेषोपलब्धये ॥२.१॥ योगजादृष्टजनितः, स तु प्रातिभसज्ञितः । सन्ध्येव दिन-रात्रिभ्यां, केवल-श्रुतयोः पृथक् ॥२.२॥ पदमात्रं हि नाऽन्वेति, शास्त्रं दिग्दर्शनोत्तरम् । ज्ञानयोगो मुनेः पार्श्व-माकैवल्यं न मुञ्चति ॥२.३॥ तत्त्वतो ब्रह्मणः शास्त्रं, लक्षकं न तु दर्शकम् । न चाऽदृष्टात्मतत्त्वस्य, दृष्टभ्रान्तिर्निवर्तते ॥२.४॥ तेनाऽऽत्मदर्शनाकाङ्क्षी, ज्ञानेनाऽन्तर्मुखो भवेत् । द्रष्टुटुंगात्मता मुक्ति-दृश्यैकात्म्यं भवभ्रमः ॥२.५॥ आत्मज्ञाने मुनिर्मग्नः, सर्वं पुद्गलविभ्रमम् । महेन्द्रजालवद् वेत्ति, नैव तत्राऽनुरज्यते ॥२.६।। आस्वादिता सुमधुरा, येन ज्ञानरतिः सुधा । न लगत्येव तच्चेतो, विषयेषु विषेष्विव ॥२.७॥ . सत्तत्त्वचिन्तया यस्या-ऽभिसमन्वागता इमे । आत्मवान् ज्ञानवान् वेद-धर्मवान् ब्रह्मवाँश्च सः ॥२.८॥ विषयान् साधकः पूर्व-मनिष्ट त्वधिया त्यजेत् । न त्यजेन्न च गृह्णीयात्, सिद्धो विन्द्यात् स तत्त्वतः ॥२.९॥
Loading... Page Navigation 1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118