Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text ________________
२१
अध्यात्मोपनिषत्प्रकरणम्
नयात्मकं सूत्रम् - स्वाभिमतधर्मातिरिक्तधर्मावबोधने गनिमीलिकामवलम्बमानं सत् स्याद्वाद
प्रतिपन्नानन्तधर्मात्मकवस्त्वेकदेशावबोधनप्रवणं सूत्रम् (१.५३ वृ.) निर्मलत्वम्
- भावनाज्ञानसम्पन्नत्वेन रागद्वेषविमुक्तान्तःकरणत्वम् (२.४० वृ.) परमात्मस्वरूपम् - अशुद्धनयकृतयोरावापोद्वापयोर्विश्रान्त्यात्मिका शुद्धानुभवसंवेद्या स्थितिः (२.२७) बुद्धिलेपः (साङ्ख्यमते) - बुद्ध्या भेदाग्रहनिबन्धन-तत्प्रतिबिम्बताप्रयुक्त-तद्धर्मकर्तृत्वाद्यभिमानः (१.५५ वृ.) बुधः
- पक्षपातरहित: स्वपरसिद्धान्ताभिज्ञो मध्यस्थ: (१.१७ वृ.) ब्रह्मयज्ञत्वम् - मनःशुद्धिद्वारा ब्रह्मज्ञानाङ्गत्वम् (१.२६ वृ.) भावनाज्ञानम् - ऐदम्पर्यगतं विधिनिषेधयोर्यत्नवदशुद्धोच्चजात्यरत्नविभानिभं ज्ञानम् (१.६७) महावाक्यत्वम् - निराकाङ्क्षप्रतिपत्तिजनकवाक्यत्वम् (१.६६ वृ.) । मुनिः
- मुक्तिमार्गमननशीलो मुमुक्षुः (२.३ वृ.) वर्णिकाशुद्धिः - विधिनिषेधोपवर्णनशुद्धिः (१.१७ वृ.) .. वीतरागपुरस्कारः - वीतरागप्रणीतशास्त्रस्य प्रमाणत्वेन स्वीकारः तदाज्ञापालनं चं (१.१४) शब्दब्रह्म
- शब्देनोल्लिख्यमानस्वरूपत्वाच्छब्दतया व्यवसितं जीवाजीवादितत्त्वं स्वात्मना जगत
एव क्रोडीकृतत्वाद् ब्रह्म (२.२५ वृ.) शमः
- अन्तःकरणस्यैकत्र विषयेऽवस्थापनम् (२.४९ वृ.) शास्त्रपुरस्कारः - शास्त्रं प्रमाणीकृत्य तद्विधिबोधितहिताचरणं तन्निषिद्धाहितानाचरणं च (१.१४ वृ.) शास्त्रम्
- शासनकर्तृ त्राणशक्तिसमन्वितं वचनम् (१.१२) शास्त्रवित्त्वम् - स्याद्वादमालम्ब्य मोक्षोद्देशाविशेषेण सर्वदर्शनतुल्यतादर्शनम् (१.७०) शुद्धोपयोगः - ध्यातृध्येयध्यायानां पृथगनवभासात्मकः चिन्मात्रस्वरूपात्ममात्रावलम्बनावबोधरूपो
निर्विकल्पकः समाधिः (२.१६) शुभोपयोगः । - ध्यातृध्येयध्यानानां पृथगवभासात्मकः सविकल्पकः समाधिः (२.१६) श्रुतज्ञानम्
- कोष्ठगबीजाभं वाक्यार्थविषयकं ज्ञानम् (१:६५) सत्त्वम् - बाध्यत्वाभावः (२.४४ वृ.)
। समता
- पक्षपातराहित्येन माध्यस्थ्यम् (१.६१ वृ.). समलत्वम्
- पौद्गलिकभावानां स्वात्मगततयाऽऽकलनेन रागद्वेषादिपरिभूतान्त:करणत्वम्
(२.४० वृ.) सम्पूर्णदृष्टिः - आगमोपपत्त्युभयजन्यबोधः (१.९) सार्वतान्त्रिकत्वम् - सर्वतन्त्रमध्यस्थत्वम् (१.५१ वृ.) सालम्बनत्वम् - ध्येयस्वरूपव्यतिरिक्ततया ध्यातृध्यानविषयकत्वम् (२.१७ वृ.)
- शुद्धात्मस्वभावमात्रावस्थानम् (२.११) । आत्मवशं सर्वम् (२.१२) स्याद्वादः
- अपेक्षावचनात्मकनयभेदाश्रयणम् (१.५१ ७.) स्वसमयस्थितत्वम् - आत्मस्वभावे निष्ठत्वम् (२.२६) हिंसा
- घात्यजीवानां पूर्वपर्यायविनाशनम् (१.५४ वृ.)
सुखम्
Loading... Page Navigation 1 ... 115 116 117 118