Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text ________________
६५
क्रियायोगशुद्धिनामाऽधिकारः व्यावर्तकस्याऽभावादज्ञानिनो न विशेष्येत- न व्याव]त । अतः सिद्धयोगस्याऽपि शास्त्रमर्यादामनुल्लङ्घ्य सम्यक्क्रियापरिपालनमेव न्याय्यम् ।
एतदन्येषामपि सम्मतमित्याह - तथा चोक्तं परैरपीति । तथा च- तेन प्रकारेण च परैरपिउत्तरमीमांसानिष्णातैः पञ्चदशीकृद्भिरपि उक्तं- प्रतिपादितम् ॥३.४॥
तद्वचनमुपदर्शयति - - "बुद्धाद्वैतस्वतत्त्वस्य, यथेच्छाचरणं यदि ।
शूनां तत्त्वदृशां चैव, को भेदोऽशुचिभक्षणे?" ॥३.५॥ [पञ्चदशी - ४.५५] बुद्धाद्वैतस्वतत्त्वस्येति । ज्ञानाद्वैतस्वरूपात्मतत्त्वस्य ज्ञानिन इत्यर्थः । यथेच्छाचरणं- भक्ष्याभक्ष्यादिशास्त्रोक्तनियमोल्लङ्घनेन यथाकाममभक्ष्यभक्षणाद्याचरणं यदि; तदा शुनां- कुक्कुराणां तत्त्वदृशामशुचिभक्षणेऽविशिष्टे सति को भेदः ? न किञ्चिदपि वैलक्षण्यम् । केवलं शास्त्रमर्यादोच्छेदकृत्त्वेन चाण्डालादिवदस्पृश्यत्वमेव ततस्तस्याऽऽपतितमिति ॥३.५॥
नन्विदं भक्ष्यं शास्त्रविहितत्वादिदमभक्ष्यं शास्त्रनिषिद्धत्वादित्यादिभेदकल्पनपरायणा बुद्धिद्वैतदृशां भवति, तद्बुद्धिपूर्विका प्रवृत्तिस्तेषामेव । अद्वैतदर्शिनां तूक्तबुद्धेरभावात् तानुद्दिश्य शास्त्रस्याऽपि विहितनिषिद्धबोधकतयाऽप्रवृत्तेः । अतस्तत्र ज्ञानिन्यबुद्धिपूर्विका- उक्तबुद्ध्यनधीना वृत्तिः- प्रवृत्तिर्न दुष्टेति चेदाह - .. अबुद्धिपूर्विका वृत्ति-र्न दुष्टा तत्र यद्यपि ।
- तथापि योगजादृष्ट-महिम्ना सा न सम्भवेत् ॥३.६॥ विधिनिषेधशास्त्रस्याऽधिकारिणं प्रति प्रवृत्तेस्तस्यं चाऽनधिकृतत्वाद् यद्यपि अबुद्धिपूर्विका प्रवृत्तिर्न दुष्टा, तथापि- तादृशाचरणे दोषाभावे सत्यपि, योगजादृष्टमहिम्ना- योगाभ्यासजनितधर्ममाहात्म्येन सायथेच्छाचरणात्मिकाऽबुद्धिपूर्विका वृत्तिर्न सम्भवेत्, तथाचरणे योगजादृष्टस्यैव प्रतिबन्धकत्वम् । एवमपि सम्यक्क्रियाराधनमेव तस्य कान्तमिति भावः ॥३.६॥ यादृशं ज्ञानिनश्चित्तमेवं सति भवति तदुपदर्शयति -
निवृत्तमशुभाचारा-च्छुभाचारप्रवृत्तिमत् ।
स्याद् वा चित्तमुदासीनं, सामायिकवतो मुनेः ॥३.७॥ निवृत्तमशुभाचारादिति । अशुभाचारगोचरनिवृत्तिमत् अशुभाचारगोचरप्रवृत्तिपराङ्मुखमिति यावत् । तच्च निश्चेष्टमपि स्यादित्यत आह - शुभाचारप्रवृत्तिमदिति ।
वा- अथवा, सामायिकवतः- सार्वकालिकसामायिकनियमवतो मुनेानिनश्चित्तमुदासीनम् । 'इष्टं भवतु मा वा, इदं कर्तव्यं व्यवहारपरिरक्षणार्थम्, अनिष्टं भवतु मा वा, इदं न कर्तव्यमेव व्यवहारविरुद्धत्वा'दित्येतावन्मात्रपरं माध्यस्थ्यकरम्बितं सर्वथा सामायिकनियतत्वाच्च नाऽन्यत् कर्तव्यमस्य भवतीति तच्चित्तमुदासीनम् । सामायिकस्याऽपि क्रियात्वेन क्रियायोगस्तावताऽपि समस्त्येवेति भावः ॥३.७।।
१. ज्ञानिनः ।
Loading... Page Navigation 1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118