Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 90
________________ ७३ क्रियायोगशुद्धिनामाऽधिकारः ___ अन्यादृष्टस्येति । शिष्यादृष्टस्येत्यर्थः । तत्पातप्रतिबन्धकतां- गुरुशरीरपातकारणीभूताभावप्रतियोगितां नयेत्- पर: कल्पयेत् । यदि तदेति दृश्यम् । म्रियमाणोऽपि तन्मते क्षीणायुष्ट्वेन मृतावस्थाप्राप्तोऽपि गुरुः, शिष्यादृष्टवशात्- शिष्यादृष्टरूपमृतिप्रतिबन्धकताबलाद्, जीव्येत- विधृतप्राणः स्यात् । संसारिणः सतः प्राणवियोगानधिकरणकालस्य प्राणसंयोगाधिकरणत्वकालनियमात् ॥३.२९।। शरीरधारणानुकूलादृष्टविशेषाभावेऽपि स्वभावादेव कियत्कालावस्थानं विदुषः शरीरस्येति वेदान्तिकदाग्रहं निग्रहीतुमाह - स्वभावान्निरुपादानं, यदि विद्वत्तनुस्थितिः । तथापि कालनियमे, तत्र युक्तिर्न विद्यते ॥३.३०॥ यदि स्वभावात्- कियत्कालावस्थानस्वभावबलादेव निरुपादानमुपादानभूताविद्यापदाभिषिक्तादृष्टमन्तरेणाऽपि, विद्वत्तनुस्थिति:- विदुषः शरीरावस्थानम्, इष्यते इति शेषः । तथापि- एवमभ्युपगमेऽपि, कालनियमे- तत्त्वज्ञानेनाऽविद्यारूपोपादानापगमानन्तरमेतावत्कालपर्यन्तं विदुषः शरीरेण स्थातव्यमिति नियमेऽभ्युपगम्यमाने सति; तत्र- स्वभावतः कालनियमे, युक्तिः- सत्तर्कपरिक़रोपेतं प्रमाणं न विद्यते- नाऽस्ति । तथा चाऽप्रामाणिकस्तादृशकालनियमाभ्युपगमोऽनाकर्णनीय एव सकर्णानामिति भावः ॥३.३०॥ . - उच्छृङ्खलस्य तच्चिन्त्यं, मतं वेदान्तिनो ह्यदः । .. प्रारब्धादृष्टतः किन्तु, ज्ञेया विद्वत्तनुस्थितिः ॥३.३१॥ तत्- तस्माद्, उच्छृङ्खलस्य- कदाग्रहाविष्टतया सद्युक्तिमतिक्रम्य प्रमाणनियमरूपशृङ्खलाव्यपगतस्य, वेदान्तिनः- अद्वैतवादिनः, अद:- अनन्तरदर्शितं मतं चिन्त्यम् । _तहि किमभ्युपेयं यत्र प्रमाणपक्षपात: स्यादित्यपेक्षायामाह - किन्त्विति । प्रारब्धादृष्टतः- प्रारब्धादृष्टवशात् । विद्वत्तनुस्थिति या- प्रमाणात्मकज्ञानविषयः ॥३.३१॥ ___"नाऽभुक्तं क्षीयते कर्म कल्पकोटिशतैरपी"ति [ ] वचन-"मवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभ"मिति [ ] वचनं च प्रारब्धकर्मणां भोगादेव क्षय इत्येतावन्मात्रपरम्; "ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन!" इत्यादि [भ.गी. ४.३७]वचनं च प्रारब्धेतरकर्मणामशेषाणां ज्ञाननाश्यत्वपरमिति ये विभजनमिच्छन्ति तेऽपि न सम्यक्प्रलापिनः । ज्ञाननाश्येषु कर्मसु वैजात्यमुररीकृत्य तादृशविजातीयाखिलकर्मनाशो ज्ञानात् तदितरकर्मनाश: क्रिययेत्येवंकल्पनस्य लाघवेनोचितत्वादित्याह - तत्प्रारब्धेतरादृष्टं, ज्ञाननाश्यं यदीष्यते । लाघवेन विजातीयं, तन्नाश्यं तत् प्रकल्प्यताम् ॥३.३२॥ १. एवं च "ज्ञानिनो नाऽस्त्यदृष्ट" (३.२४) मिति यदुक्तं तन्निरस्तमवगन्तव्यम् । .

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118