Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 89
________________ अध्यात्मोपनिषत्प्रकरणम् पाताव्यवहितपूर्वकालं यावद् यावत् क्षणप्रचयं तावत् क्षणप्रचयम्, उपादानभूताविद्याविवर्तकर्मप्रचयविनाशेऽपि विद्वत्तनुस्थिति:- ज्ञानिशरीररूपोपादेयावस्थानं स्यादित्यर्थः ॥३.२७।। ७२ न्यायाभिमतं क्षणं निरुपादानकार्यावस्थानं युक्तिसङ्गतम् । यतस्तादृशोपादेयनाशं प्रति उपादाननाशातिरिक्तस्याऽकारणत्वेन कारणीभूतस्योपादाननाशस्य स्वोत्पत्तेः पूर्वमसत्त्वेनोपादाननाशक्षणे तत्पूर्वक्षणे कारणाभावादेवोपादेयनाशो नोत्पद्यते । तत्प्रागभावतद्ध्वंसानधिकरणक्षणस्य तदधिकरणक्षणत्वनियमतश्च तदानीमुपादेयावस्थानमेव परिशेषाद् व्यवतिष्ठते । न च तथा प्रकृते । तन्यायेनैकक्षणावस्थानमेव निरुपादानकस्य स्यान्न बहुक्षणावस्थानमित्याशयेन प्रतिक्षिपति - निरुपादानकार्यस्य, क्षणं यत् तार्किकैः स्थितिः । नाशहेत्वन्तराभावा-दिष्टाऽत्र च स दुर्वचः ॥ ३.२८॥ निरुपादानकार्यस्य- समवायिकारणविगमकालीनोपादेयस्य, क्षणं- क्षणमात्रं, क्षणत्वं च स्ववृत्तिध्वंसप्रतियोग्यनधिकरणसमयत्वं यद्- यस्माद्, नाशहेत्वन्तराभावात् समवायिकारणनाशजन्यनाशस्य यद् हेत्वन्तरं समवायिकारणनाशव्यतिरिक्तं कारणं, तस्याऽभावात् । एवं च समवायिकारणनाशानन्तरक्षणे तन्नाशानुत्पादे तस्य तदहेतुकत्वतोऽन्यहेतोश्चाऽभावेनाऽहेतुकस्य तन्नाशस्य कदाऽपि भवनमेव न स्यात् । अतः समवायिकारणनाशरूपकारणस्य स्वोत्पत्तिपूर्वक्षणेऽभावादेव समवायिकारणनाशोत्पत्त्यधिकरणक्षणे उपादेयस्य कार्यस्य स्थितिरवस्थितिस्तार्किकैः- नैयायिकैरिष्टाअभ्युपगता । स- नाशहेत्वन्तराभावो न च दुर्वचः- नैव वक्तुमशक्य इत्यर्थः । किन्त्वत्र च - वेदान्तिनो 'निरुपादानस्याऽपि ज्ञानिदेहस्य कियत्कालावस्थानं, न तु नाश' इति मते, स- नाशोपपादककारणविरहो दुर्वचो- वक्तुमशक्यो भवति, युक्त्योपपद्यमानत्वाभावादित्याशयः ॥३.२८॥ शिष्यादृष्टस्य गुरुशरीरपातप्रतिबन्धकत्वमभ्युपेत्य तदभावरूपकारणाभावाच्छरीरपातरूपकार्याभावतः कियत्कालं विदुषः शरीरावस्थानमित्युपगमोऽपि परस्य न विद्वज्जनचेतश्चमत्कारचञ्चुरित्याह अन्यादृष्टस्य तत्पात-प्रतिबन्धकतां नयेत् । म्रियमाणोऽपि जीव्येत, शिष्यादृष्टवशाद् गुरुः ॥३.२९॥ १. इदं तु ध्येयम् नैयायिकमतेऽदृष्टस्य शरीरोपादानकारणत्वं नैवाऽङ्गीक्रियते, परं वेदान्तिनो मतेऽविद्यापपर्यायस्याऽदृष्टस्य शरीरोपादानकारणताऽस्त्येव, अतस्तन्नाशे शरीरस्य निरुपादानत्वोक्तिः सङ्गच्छते एव । २. उपादाननाश उपादेयनाशस्य कारणम् । कारणं कार्याव्यवहितपूर्वक्षणवृत्ति भवति, न तु समानक्षणवृत्ति । अत उपादाननाशक्षणे उपादेयनाशो न सम्भवति किन्तु तदनन्तरक्षणे एव । तत उपादाननाशक्षणे क्षणमेकं निरुपादानमुपादेयस्याऽवस्थानं सम्भवति । ३. अत्र 'स्ववृत्तिध्वंसप्रागभावान्यतरप्रतियोग्यनधिकरणसमयत्व' मितिं स्यात् तर्हि वरम् । तत्तात्पर्यं तु तद्भिन्नेषु तत्पूर्वसमयेषु तद्वृत्तिध्वंसप्रतियोग्यधिकरणत्वं तदनन्तरसमयेषु च तद्वृत्तिप्रागभावप्रतियोग्यधिकरणत्वमिति । ४. वृत्त्यन्तरे "०न्धकतानये" इति पाठस्तदनुरूपोऽर्थश्च । तात्पर्यं तु सदृशमेव ।

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118