Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text ________________
५०
अध्यात्मोपनिषत्प्रकरणम् तत्- सत्सामान्यं, स्वविश्रान्तं- प्रत्येकं तत्तद्व्यक्तिस्वरूपनियतं स्वरूपसत्त्वमिति यावत् । स्वरूपसत्त्वानां भिन्नानामपि 'सत्, स'दित्यनुगतबुद्धिनियामकत्वेन कथञ्चिदैक्यान्महासामान्यत्वं स्याद्वादनीत्योपपद्यते एव । एवं च ब्रह्मणो महासामान्यसद्रूपत्वेऽपि तत् सूक्ष्मधिया विचार्यमाणं स्वस्वरूपसत्त्वे एव विश्राम्यतीति न वस्तुतः पुद्गलरूपतापत्तिस्तस्य । ततो न पौद्गलिकानां भावानां कर्तृत्वकारयितृत्वादिकं वास्तविकं तस्येति लेपाभावे निर्लिप्तत्वं तस्योपपन्नमिति भावः ॥२.४२।। . .
ननु सङ्ग्रहोऽभिन्नैकरूपमेव महासामान्यं सत्त्वमभ्युपगच्छति । ऋजुसूत्रनयश्च स्वरूपसत्त्वमननुगतमेवोररीकरोतीत्यनुगता-ऽननुगतसत्त्वाभ्युपगमो न कस्याऽपि नयस्य विषयः । तथा चैवमभ्युपगच्छतः स्याद्वादिनः प्ररूपणायां नयनिरपेक्षत्वं प्रसक्तम् । तथा च "प्रमाणनयैरधिगम" [तत्त्वार्थ० - १.६] इति सिद्धान्तव्याकोपः । तत्र हि एकस्यैव वस्त्ववगमस्य प्रमाणनयोभयप्रभवत्व'मधिगम' इत्येकवचनोपन्यासतो ऽवधार्यते इत्यत आह -
नयेन सङ्ग्रहेणैव-मृजुसूत्रोपजीविना ।
सच्चिदानन्दरूपत्वं, ब्रह्मणो व्यवतिष्ठते ॥२.४३॥ ऋजुसूत्रोपजीविना- ऋजुसूत्राभ्युपगतस्वरूपसत्त्वानां स्वाभ्युपगतानुगतैकमहासामान्यरूपसत्त्वस्वरूपप्रविष्टतयाऽभ्युपगमोपष्टम्भत ऋजुसूत्रानुगतेन । सङ्ग्रहेण- सर्वस्यैवाऽवान्तरसामान्यविशेषादेरेकमहासामान्यसत्त्वस्वरूपतया सङ्ग्रहप्रवणेन सङ्ग्रहसज्ञकेन नयेन द्रव्यार्थिकनयविशेषेण । एवम्- उक्तप्रकारेण सच्चिदानन्दरूपत्वं ब्रह्मणो व्यवतिष्ठते ।
तत्र शुद्धोपयोगरूपत्वव्यवस्थापनेन चैतन्यरूपत्वं, वैषयिकसुखापेक्षया ज्ञानमग्नस्याऽत्युत्कृष्टानन्दस्वरूपावाप्त्युपपादनेनाऽऽनन्दरूपत्वं, “महासामान्यरूपेऽस्मि"न्नित्यनेन च सद्रूपत्वं व्यवस्थापितमिति,
"अस्ति भाति प्रियं नाम, रूपं पञ्चात्मकं जगत् । .
आद्यत्रयं ब्रह्मरूपं, जगद्रूपं ततो द्वयम् ॥" [ ] इति परवचनमपि सम्यक् परिशीलितं भवति, स्याद्वादे सर्वस्यैव नयभेदेनोपपत्तेरिति ॥२.४३।।
ननु सत्त्वं चित्त्वमानन्दत्वं परस्परविभिन्नस्वभावमेवाऽऽस्थेयम् । अन्यथा सच्चिदानन्दशब्दानामभिन्नप्रवृत्तिनिमित्तकत्वेन पर्यायताप्रसक्तौ त्रयाणां सामानाधिकरण्येनोपादानं 'घट: कलश' इतिवद् दुर्घटं स्यात् । एवं च नैकं विभिन्नस्वभावात्मकं, स्वभावभेदे स्वभाववतो भेदस्याऽऽवश्यकत्वात् । तथा च ‘एकमेवाऽद्वितीयं ब्रह्मेति परश्रुतेः सङ्गमना कुतः, ब्रह्माद्वैतस्यैव सद्भावात् । एवमुक्तधर्मत्रयवत्त्वे निर्धर्मकत्वमपि ब्रह्मणो विशीर्येत ।
किञ्चोक्तधर्माणां वास्तविकत्वे तद्विशिष्टं ब्रह्माऽपि वास्तविकमिति तत्तद्धर्मविशिष्टतया ब्रह्मज्ञानमपि प्रमात्मकमिति तदात्मकसविकल्पवेद्यत्वे सम्भवति 'निर्विकल्पकैकमात्रवेद्यमेव ब्रह्म, ब्रह्मणो निर्विकल्पक ज्ञानमेव शुद्धोपयोग' इत्याद्युपगमोऽपि विशीर्णप्राय एव ।
किञ्चोक्तधर्माणां धर्मिस्वरूपाद् ब्रह्मणो भेदोऽभेदो वा ? आद्ये ब्रह्मधर्मता तेषां न स्यात् । तथाऽपि तथाभावे द्वैतापत्तिः स्यादेव । द्वितीये 'तदभिन्नाभिन्नस्य तदभिन्नत्व'मिति न्यायेन सत्त्वचित्त्वानन्दत्वानामैक्यप्राप्तौ पुनरपि सच्चिदानन्दशब्दानां पर्यायताप्राप्तौ सहप्रयोगानुपपत्तिरित्यत आह - . .
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118