Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 77
________________ ६० अध्यात्मोपनिषत्प्रकरणम् सत्तालक्षणभावनाशीलत्वाच्च भावस्तत्र निचितपञ्चाचारसञ्चारचारुस्फुरितपरमभावे, न:- अस्माकं ज्ञानयोगाभिमुखानां मुमुक्षूणां स्याद्वादिनाम्, अधिक:- अन्यभावपक्षपातापेक्षया विशिष्टः, तेनाऽन्यत्राऽपि स्याद्वादसिद्धेऽर्थे पक्षपातोऽस्त्येव, अन्यथैकान्तवादिता स्यादिति ध्वनितं, पक्षपातोऽभिनिवेशः । स च परम्परया मुक्त्युपयोगित्वान्न दुराग्रहो, नाऽपि माध्यस्थ्यपरिपन्थीति बोध्यम् ।।२.६१।। ननु निश्चयनयस्य शुद्धसङ्ग्रहरूपतया परसामान्या-ऽवान्तरसामान्यविशेष-परामर्शरूपनैगमनयादल्पविषयत्वेन नैगमनयाद् बहुविषयादनेकस्वरूपतयाऽऽत्मनो मननस्य सम्भवे, तत्रैव ज्ञानयोगिना निर्भरो विधेयस्तत एव च सिद्धिसौधाध्यासनं सम्पत्स्यते इति निश्चयनयाश्रयणेनाऽऽत्मस्वरूपविभावनमात्मनः सङ्कुचितापादनं न युक्तमित्यत आह - स्फुटमपरमभावे नैगमस्तारतम्यं, प्रवदतु न तु हृष्येत् तावता ज्ञानयोगी । कलितपरमभावं चिच्चमत्कारसारं, सकलनयविशुद्धं चित्तमेकं प्रमाणम् ॥२.६२॥ पञ्चौपाधिकं कादाचित्कं शमसुखविहीनं तद्भावनिकुरम्बमपि अपरमेव । तथाविधेऽपरमभावे तारतम्यमेतद्भावापेक्षयाऽयं भाव उत्कृष्ट एतदपेक्षया चाऽयमुत्कृष्टोऽयं चाऽऽत्मन औपशमिक आत्मनो भावोऽयं च क्षायोपशमिक एतदपेक्षया क्षायिकोऽयमुत्कृष्ट एवमेतद्भावनया सालोक्यावाप्तिः, एतद्भावनया च सामीप्यावाप्तिरेतद्भावनया च सारूप्यावाप्तिरित्थंभावनया च सायुज्यमित्यादिप्रकारेण तारतम्यं नैगमः प्रवदतु । तावता- अनल्पस्वरूपतयाऽऽत्मस्वरूपमननेन नैगमप्रभावितेम ज्ञानयोगी न तु हृष्येत् । न ह्यारोपितस्वरूपबाहुल्यसमुत्थापित-विचारबाहुल्यतश्चित्तस्य स्वरूपविश्रान्तिलक्षणसुखसाम्मुख्यं मनागप्युपजायते । याचितानल्पालङ्कारव्याप्तविग्रहाऽपि कामिनी आपाततोऽन्यदृष्टिसुखभाजनाऽपि स्वयं तद्भारोद्वहनप्रभवदुःखभागिन्येव । न हि स्वयं दुर्भगाया आभरणकदम्बसम्पर्कसमुद्भावितमौपाधिकं सौन्दर्यं सौन्दर्यतया समाकलयन्ति लौकिका अपीति याचिताभरणकल्पं दुर्भगाभरणकल्पं वा नैगमोत्प्रेक्षितमपरमभावकदम्बकमात्मन: पश्यन् ज्ञानयोगी नाऽऽनन्दभाग् भवतीत्यर्थः । तात्मनश्चैतन्यमात्रस्वरूपमप्यवलम्ब्य कथमस्याऽऽनन्दसमुल्लासो येन तत्पक्षपात्ययं स्यादित्यतस्तत्र वैशिष्ट्यमुपदर्शयति - कलितपरमभावमिति । अनेन विशेषणेन चैतन्यस्वरूपलक्षणस्याऽनौपाधिकत्वमाविष्कृतम् । कलित:- स्वस्वरूपतयाऽवस्थापितः परमभाव- उपदर्शितनिर्वचनो येन तत् तथेति । चिच्चमत्कारसारमिति । अनेन च दुःखमात्रयाऽप्यसंस्पृष्टत्वादत्यन्तोपादेयत्वमाविष्कृतम् । चित्- चैतन्यं, तदेवाऽऽनन्दस्वरूपत्वाच्चमत्कारस्तत्सारं- तत्प्रधानम् । नाऽत्र मात्रयाऽपि चैतन्यव्यतिरिक्तस्य कस्यचित् कालस्थायित्वेनाऽऽत्यन्तिकावस्थानविकलस्य सम्पर्कः । सकलनयविशुद्धमित्यनेन नाऽत्र कस्याऽपि विवादः, चार्वाकोऽपि च चैतन्ययोगमुपगम्यैव भूतसमष्टिपरिणामविशेषे शरीरात्मकभूते आत्मत्वमुपगच्छतीति प्रकटितम् । सकला नया यत्र स्याद्वादे स सकलनयः, १. सालोक्याव्याप्त्यादयः क्रमशो वर्धमानाः शभावस्थाः परदर्शनसत्काः ।

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118