Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 62
________________ ज्ञानयोगशुद्धिनामाऽधिकारः __ आरब्धशक्तित:- 'आरब्धं कर्माऽवश्यमेव भोक्तव्य'मित्यारब्धकर्मस्वाभाव्यात् । स्वत एवस्वस्वभावार्देव, न तु पुरुषप्रयत्नरूपपुरुषकारान्नाऽपीश्वरादितः, कर्माणि- पूर्वोपार्जितपुण्यपापाख्यकर्माणि, समायान्ति- स्वफलं दातुमुदयावलिकाप्रविष्टानि भवन्ति । एकक्षेत्रावगाहेन- नीरक्षीरन्यायेन यस्मिन् क्षेत्रे कर्मणामवगाहस्तस्मिन्नेव ज्ञान्यात्मनोऽप्यवगाह इत्येवमेकक्षेत्रावगाहेन, ज्ञानी- कर्मस्वभावकृतदोषादिस्वरूपाभिज्ञः, तत्र- कर्मकृतभाववैचित्र्योल्लासे, न दोषभाक्- न कर्मकृतदारिद्याद्युपद्रवजनितक्लेशभाक् । उक्तमन्यत्राऽपि - "ज्ञानिनोऽज्ञानिनश्चाऽत्र, समे प्रारब्धकर्मणि । न क्लेशो ज्ञानिनो धैर्या-न्मूढः क्लिशत्यधैर्यतः ॥ मार्गे गन्त्रोर्द्वयोर्भ्रान्तौ, समायामप्यदूरताम् । जानन् धैर्याद् द्रुतं गच्छे-न्मूढस्तिष्ठत्यधैर्यतः ॥" [ ] इति ॥२.३२॥ ननु यथाऽन्ये लोका इष्टे कर्मणि प्रवर्तन्ते, अनिष्टे च कर्मणि निवर्तन्ते, विहितमाचरन्ति, निषिद्धं च परित्यजन्ति; तथैव लोकव्यवहारानुसारिणो ज्ञानिनोऽपीति । एवं चेष्टमुपाददानास्तदुपायान्वेषणायासप्रभावितदुःखभाजिनो लौकिका इव ज्ञानिन: स्युः, अनिष्टं च परिहरन्तस्तत्साधनसम्पर्काद् दूरीभवन्तो नैकान्तेनैवैकत्र स्थितिमाधातुं प्रभविष्णव इति तत्कृतदुःखभागिनो लौकिका इव तेऽपि प्रसज्येरनिति कुत एतेषां दृढज्ञानयोगव्यवस्थितिरित्यत आह - 'दारुयन्त्रस्थपाञ्चाली-नृत्यतुल्याः प्रवृत्तयः । . . योगिनो नैव बाधायै, ज्ञानिनो लोकवर्तिनः ॥२.३३॥ यथा दारुयन्त्रखचितकाष्टमयपुत्तलिकानृत्यं बहुप्रकारं केनाऽपि तत्सूत्रणसूत्रधारेण विधीयमानं तत्कर्तृतयाऽऽपाततः प्रतीयमानानां पुत्तलिकानां स्वभावत एव रागद्वेषविवर्जितानां नाऽऽयासप्रभावितदुःखसंक्षोभविधायकं; तथा योनिप्रवृत्तयोऽपि प्रारब्धकर्मशक्तिवशतो भवन्त्यो न स्वकर्तृणां माध्यस्थ्यभावनाभावितान्तःकरणानां रागद्वेषजनितव्यामोहपराङ्मुखानां ज्ञानिनां 'लोकव्यवहारव्युच्छेदो मा भू'दित्येतावन्मात्रेणैव प्रवर्तमानानां न मनागपि बाधायै भवन्ति । अत्र च लोकवर्तिनो ज्ञानिनो योगिनः प्रवृत्तयो दारुयन्त्रस्थपाञ्चालीनृत्यतुल्या: सत्यो बाधायै नैव भवन्तीति क्रियायोगः ॥२.३३॥ लोकमार्गातिलची यदि ज्ञानी अभ्युपगम्येत तदा तस्य यथेष्टाचरणं युज्येत । नैवं तथा तस्योपगमः । तथा सत्यशुचिभक्षणाद्यतिनिन्दनीयकर्मण्यपि प्रवर्तमानस्य व्यवहारौचित्यलङ्घिनस्तस्य ज्ञानिनः स्वभावतोऽशुचिभक्षणप्रवृत्ताच्छुनोऽप्यपकृष्टत्वमासज्येत । अत उचितक्रियाकार्येव ज्ञानी अस्माकमनुमत इत्याशयेनाऽऽह - १. वृत्त्यन्तरे श्लोकस्याऽस्याऽन्योऽपि भावार्थः प्रदर्शितः । स चैवं - आरब्धशक्तित:- नियतविविधकर्मबन्धसामर्थ्यतः, स्वत एव- विशिष्य जीवाप्रेरितान्येव कर्माणि समायान्ति । परमेकक्षेत्रावगाहमात्रेण ज्ञानी तत्र कर्मबन्धे दोषभाग न भवतीति । अयमपि सङ्गमनीयो भाति ।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118