Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text ________________
अध्यात्मोपनिषत्प्रकरणम् एनं केचित् समापत्ति, वदन्त्यन्ये ध्रुवं पदम् ।
प्रशान्तवाहितामन्ये, विसभागक्षयं परे ॥१.१५॥ अत एव च शास्त्रचक्षुष्टं योगिनामुपपत्तिपद्धतिमियीत्याह - ..
चर्मचक्षुर्भूतः सर्वे, देवाश्चाऽवधिचक्षुषः ।
सर्वतश्चक्षुषः सिद्धा, योगिनः शास्त्रचक्षुषः ॥१.१६॥ सर्वे- देव-सिद्ध-योगिभिन्नाः प्राणिनः । देवादीनां चर्मचक्षुषः सद्भावेऽपि नाऽतो विशिष्टाऽर्थदृष्टिः, किन्त्ववध्यादित एवेति तस्याऽसत्कल्पत्वमभिप्रेत्यैवमुक्तिः । सर्वतश्चक्षुषः- सर्वविषयनिरीक्षणप्रवणकेवलनयनभाजः ॥१.१६॥
जैनागमे कषशुद्ध्यादयो विद्यन्तेऽन्यत्र न विद्यन्तेऽतोऽस्यैव शास्त्रत्वं, तज्जनितज्ञानस्यैवाऽध्यात्मभाजनत्वमित्युपपादयति -
परीक्षन्ते कषच्छेद-तापैः स्वर्णं यथा जनाः ।
शास्त्रेऽपि वर्णिकाशुद्धि, परीक्षन्तां तथा बुधाः ॥१.१७॥ . . वर्णिकाशुद्धि- विधिनिषेधोपवर्णनं वर्णिका, तस्याः शुद्धिं कषच्छेदतापशुद्धिलक्षणाम् । बुधा इति पक्षपातरहिताः स्वपरसिद्धान्ताभिज्ञा मध्यस्था एव गृह्यन्ते, • तेन कदाग्रहग्रहिल-पक्षपातपरायणपण्डितम्मन्याभिनिवेशसमुत्था-ऽयथावत्परीक्षया कषशुद्ध्यादेविनिमयेऽपि न क्षतिः ॥१.१७॥ तत्र कषशुद्धि स्वरूपतो लक्षयति -
विधयः प्रतिषेधाश्च, भूयांसो यत्र वर्णिताः ।
एकाधिकारा दृश्यन्ते, कषशुद्धि वदन्ति ताम् ॥१:१८॥ यत्र- यस्मिन् शास्त्रे । एकाधिकारा- एकोद्देशेन प्रवृत्ताः ॥१.१८।। इयं च कषशुद्धिजैनागमे समस्तीत्याह -
सिद्धान्तेषु यथा ध्याना-ध्ययनादिविधिव्रजाः ।
हिंसादीनां निषेधाश्च, भूयांसो मोक्षगोचराः ॥१.१९॥ सिद्धान्तेष्विति जैनागमेष्वित्यर्थः । मोक्षगोचरा इत्यनेन विधि-निषेधयोरेकगोचरत्वं स्पष्टीकृतम् ॥१.१९।।
१. एनं- शास्त्रपुरस्काराक्षिप्तवीतरागपुरस्कारं पातञ्जलयोगदर्शनानुसारिणः समापत्तिं (तद्रूपं परिणाम) वदन्ति (योगसूत्र-१.४१) । महाव्रतिकास्तु ध्रुवं पदं (अविनाश्याशयस्थान) कथयन्ति । साङ्ख्याः पुनः प्रशान्तवाहितां (-विशुद्धचित्तसंस्कारात्मिकां) वर्णयन्ति । बौद्धमते त्वेष 'विसभागक्षय' (-निर्विकल्पाध्यक्षसन्तति) पदेनोच्यते । दृश्यतां योगदृष्टिसमुच्चयकारिका - १७६ । २. योगिनां चर्मचक्षुषोः सत्त्वेऽपि हेयोपादेयविवेके विधिनिषेधसाध्ये कार्ये वा न प्राधान्येन तदुपयोगः, शास्त्रज्ञानमेव तत्र प्रभवतीति योगिनां शास्त्रचक्षुष्ट्वम् ।
Loading... Page Navigation 1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118